SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ शत्रुञ्जय-कल्पवृत्ती 0000000000000000000000000000000000000000000000000000 मृतप्रायं यदा वित्तं मृतप्रायं यदा वपुः। मृतप्रायं यदाक्षाणा-मृद्धपक्वं तदा सुखम् // 11 // कायेन मनसा वाचा यन् कर्म कुरुते यदा / सावधानस्तदा तत्र धर्मान्वेषी भवी भवेत् // 12 // इष्टानिष्टषु भावेषु सदाऽव्यग्रमना मुनिः / सम्यगनिश्चयतत्वज्ञः स्थिरीकुर्वीत साचिकः // 63 // इत्यादिदेशनां श्रुत्वा भीमः श्रीगुरुसन्निधौ / जग्राह संयमं सद्यः संसारार्णवतारकम् // 14 // गुरूक्तं विधिवद् यत्नं सर्वजीवेषु सर्वदा / कुर्वन् भीमयतिस्तीव्रतपस्तपति भावतः // 65 // पालयित्वा चिरं वृत्तं क्षिपन् दुष्कृतसन्ततिम् / भीमवाचंयमो मृत्वाऽऽदिमे स्वर्गेऽभवद्धरिः // 66 // सवासवोऽन्यदा शत्रु-जये श्रीप्रथमं जिनम् / प्रणम्य ज्ञानिनः पार्थे सुश्राव धर्मदेशनाम् // 17 // तदा कदम्बकाचार्या लक्षसंयतसंयुताः / शत्रुञ्जये समायांता नन्तु श्री जिननायकान् // 18 // पार्श्वे केवलिनस्तस्य सिद्धाद्रिमहिमां किल / सूरिः कदम्बकः श्रोतु-मुपविष्टो मुमुक्षुयुग // 66 // तेषां कदम्बमुख्यानां साधूनां शृण्वतां वृषम् / शुक्लध्यानादभूजातं केवलं सर्वलोकगम् // 10 // तेषां ज्ञानशिवप्राप्त्यु-त्सवं स निर्जराधिपः / कृत्वा कदम्बकेत्याह्वां सिद्धार्दत्तवान मुदा // 101 // इति कदम्बकनामोपरि इन्द्रशोष्ठिकथा * उक्तं च "शत्रुञ्जयस्य नामानि-- शत्रुञ्जयः पुण्डरीकः सिद्धिक्षेत्रं महाबलः / सुरशैलो विमलाद्रिः पुण्यराशिः श्रियः पदम् // 1 // पर्वतेन्द्रः सुभद्रश्च दृढशक्तिरकर्मकः / मुक्तिगेहं महातीर्थ शाश्वतः सर्वकामदः // 2 // पुष्पदन्तो महापद्मः पृथ्वीपीठं प्रभोः पदम् / पातालमूलः केलाशः क्षितिमण्डलमण्डनम् // 3 // शतमष्टोत्तरं नाम्नामित्याधुक्तममुष्य हि / महाकल्पे विजानीयात् सुधर्मोक्तेऽतिशर्मदे॥४॥चतुर्भिः कलापकम् // नामान्यमूनि यः प्रातः पठत्याकर्ण यत्यपि / भवन्ति सम्पदस्तस्य व्रजन्ति विपदः क्षयम् // 5 // रयणायरविवरोसहि रसकूवजुआ सदेवया जत्थ / ढंकाइ-पंचकूडा सो विमलगिरी जयउ तित्थं // 5 // व्याख्या-रत्नानां "याकरः" खानिः वर्तते "विवराणि" गुहारूपाणि यक्षौषधावधिष्ठितानि, औषधयो विविधाः याभिरनेके रोगा यान्ति, वशीकरणादिर्भवति "रसकूपिका" स्वर्णरसकूपिका एकगुदीआनकमात्रो रसः तन्मध्ये चतुःषष्टिगुदीबानका लोहं ताम्र वा क्षिप्यते, अग्निसंयोगात् सुवर्ण भवति, ढङ्कादयः पञ्च कूटा यत्र सन्ति, स "विमलगिरिः" शत्रुञ्जयपर्वतः "जयउ" जयतात् "तित्थं" तीर्थम् / / आदौ रत्नाकरस्य सम्बन्ध उच्यते--
SR No.004347
Book TitleSittunja Kappo
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherAgamoddharak Granthmala
Publication Year1970
Total Pages404
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy