________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलतो मयोपदेशः / 203 wwww चावयवद्योत्य-समुदायशक्यार्थबोधकत्वेन तथात्वं युक्तम् , एवं सति 'प्रजयति ' इत्यत्र प्रोत्तरजित्वेन प्रकृष्टजय इव पङ्कजपदोत्तर'ड'प्रत्ययत्वेन पङ्कजनिकर्तृपद्म एव निरूढलक्षणासम्भवे समुदायशक्तो माना. भावाद् , अनन्यलभ्यस्यैव शब्दार्थत्वाद्, अन्यथा समासे न शक्तिरिति मतभङ्गप्रसङ्गात्, न चेदेवं राजवाचके भूधनादिशब्दे भूधनवति लक्षणया यौगिके राजत्वेन पृथग् बोधकतया योगरूढत्वप्रसङ्गः कथङ्कारं वारणीयः, विशिष्टरूढयेकान्तनयो विशिष्टयोगैकान्तनयो वा तत्र समानप्रसर इति तयोर्महा. योधयोरिव युद्धं वारयितुं स्याद्वादमहाराजं विना कोऽन्यः समर्थ इति विभावनीयम् / एतेन योगार्थस्य नियमतोऽभानप्रसङ्गेन मीमांसकनयकान्तोऽपि निरस्त; इति नययोजनयैव सर्वा शाब्दी प्रक्रियाऽनाविला // 39 // युक्तः। न्यायनयैकान्ताभ्युपगमस्यायुक्तत्वे हेतुमाह-तनय इति-न्यायनये इत्यर्थः / नाम-धास्वोः पङ्कनाम-जनिधात्वोः। सम्भूयाबोधकत्वेन मिलित्वाऽर्थबोधकत्वाभावेन, पङ्केति नाम कर्दमरूपार्थ बोधयति, जनिधातुश्चोत्पत्तिरूपार्थ बोधयति, न तु मिलितयोस्तयोः पङ्कविशिष्टोत्पत्तिरूपार्थबोधकत्वं नामार्थ-धात्वर्थयोरभेदातिरिक्तसम्बन्धेनान्वयस्याव्युत्पन्नत्वात् , प्रकृते च पङ्कपदार्थस्य नाभेदसम्बन्धो जनिधात्वर्थोत्पत्तौ घटतेऽतो जन्यजनकभाव एव सम्बन्धः, स च व्युत्पत्तिविरोधान शाब्दे भासितुमर्हतीति / तयोः नाम-धात्वोः। तात्पर्यग्राहकतायाः पङ्कोपपदकजनिधातूतरडप्रत्ययस्य पजनिकर्तृरूपायें यत् तात्पर्य तदाहकतायाः, अस्य 'स्वीकाराद्' इत्यनेनान्वयः, कर्तृरूपार्थे डप्रत्ययविधानं न तु पजनिकर्तृरूपार्थे इति डप्रत्ययस्य न पङ्कजनिकर्तरि शक्तिः किन्तु तस्य तत्र लक्षणैवेति डप्रत्ययस्य पङ्कजनिकर्तरि लक्षणायाः स्वीकारादित्यर्थः / 'नच' इत्यस्य 'युक्तम्' इत्यनेनान्वयः। अवयवद्योत्येति-नाम-धातु-प्रत्ययलक्षणावयवद्योत्येत्यर्थः / समुदायशक्त्या उपपद-धातु-प्रत्ययनिष्पन्नपङ्कजपदशक्त्या, शक्येति पाठे अवयवद्योत्यो यः समुदायशक्यार्थस्तद्बोधकत्वे.. नेत्यर्थोऽत्र प्राह्यः / तथात्वं पङ्कजपदस्य योगरूढत्वम् / युक्तत्वनिषेधे हेतुमाह-एवं सतीति- अवयवानां द्योतकत्वं समु. दायस्यार्थबोधकत्वमित्यभ्युपगमे सतीत्यर्थः / प्रकृष्टजय इवेति-प्रकृष्टजयरूपार्थे प्ररूपोपसर्गोतरजिस्वेन जयार्थकजिधातोर्यथा लक्षणा तथेत्यर्थः / ननु पङ्कजनिकर्तृपद्मरूपार्थप्रतीतिरेव समुदायशकौ मानमित्यत आह- अनन्यलभ्यस्यैवेति, शब्दार्थ. स्वात् शब्दशक्यार्थत्वात् , वेन लक्षणया लक्ष्यस्य शब्दजन्योपस्थितिविषयत्वलक्षणशब्दार्थत्वेऽपि न क्षतिः, यथा 'गङ्गायां घोषः' इत्यत्र गङ्गापदाद् गङ्गातीररूपार्थप्रतीतावपि न गङ्गापदस्य गङ्गातीररूपार्थे शक्तिः, गङ्गातीररूपार्थस्य तत्र लक्षण.. यैवावंगतिसम्भवेन तस्य शक्तिभित्रलक्षणालभ्यत्वेनानन्यलभ्यत्वाभावात् , तथा प्रकृतेऽपि पङ्कजनिक पद्मरूपार्थस्य शक्तिः मिन्नलक्षणया प्रतीतिसम्भवेनान्यलभ्यस्य तस्यानन्यलभ्यत्वाभावेन पङ्कजपदशक्यार्थत्वाभावेन न पङ्कजपदस्य समुदायशक्तिरित्यर्थः / मन्यथा अन्यलभ्येऽपि समुदायशक्तरभ्युपगमे / समास इति- समासघटकप्रत्येकपदक्लप्तशक्त्यैव समासप्रतिपाद्यार्थस्यावगतिसम्भवात् समासे न शक्तिरिति नैयायिकमतस्य भङ्गप्रसङ्गात् , तथा च समासशक्त्यभ्युपगन्तारो वैयाकरणा एवं विजयेरन्नित्याशयः / लक्षणया निर्वाहे सत्यपि पङ्कजपदस्य योगरूढत्वाभ्युपगमे भूर्धनं यस्य स भूधन इत्येवं व्युत्पन्नस्य भूधनशब्दस्य भूस्वानिराजरूपार्थकत्वतो योगरूढत्वं प्रसज्यत इत्याह-नचे देवमिति- उक्कदिशोपपादितमर्थ नाभ्युपैति यदा . तदेत्यर्थः / राजत्वेन पृथग्बोधकतया राजत्वेन राजनि भूधनपदस्य समुदायशक्तिरित्युपगमतो राजत्वेन राजरूपार्थस्य भूधनवद्रूपार्थतः पृथग्बोधकतयेत्यर्थः / कथङ्कारं वारणीयः ? न कथञ्चिद्वारयितुं शक्यः / विशिष्टरूढ्येकान्तनयः पहजपदस्य पङ्कजनिकर्तृत्वविशिष्टपने रूढिरेवेत्येकान्ताभ्युपगन्तृनयः। विशिष्टयोगैकान्तनयः पङ्कजनिकर्तृत्वविशिष्टपझेडवयवशफिरेवेत्येकान्ताभ्युपगन्तृनयः / तत्र पङ्कजपदे / समानप्रलरः तुल्ययुक्त्योपपादयितुं शक्यः / इति एतस्मात कारणात् / तयोः विशिष्टरूब्येकान्तनय-विशिष्टयोगैकान्तनययोः, अस्य 'युद्धम्' इत्यनेनान्वयः / अत्र दृष्टान्तमाहमहायोधयोरिवेति- यथा महायोषयोर्मल्ल-प्रतिमल्लभावेन युद्धं कुर्वतोः सामन्त-महीपत्योयुदं वारयितुं तदधिकशक्तिमान् महाराज एवं प्रभुस्तं विनाऽन्यो न तयोयुद्धं वारयितुं समर्थस्तथा प्रकृतेऽपि निरुकनययोरन्योऽन्यमतखण्डनलक्षणयुद्ध वारयितं 'स्याद् यौगिक एव शब्दः, स्याद्रूढ एव शब्दः' इत्यादिसप्तभशीलक्षणस्याद्वादमहाराज एवं समर्थो न तु तदन्यः कश्चित् समर्थ इत्यर्थः /