________________ श्लो० 403-459 ] वैराग्यरतिः। भूयश्च पीड्यमानं तैराम्रकेष्वेव धावति / पुनर्गुण्डनमेवास्य स्नेहेन पुनरार्द्रता // 431 // पुनश्च क्षतसम्पत्तिः पुनः सर्वेऽप्युपद्रवाः / अस्य वानरजीवस्य चक्रकं दुस्तरं ह्यदः // 432 // विधेयश्चक्रकोच्छेदो रक्षता तददस्त्वया / उपायेन मदुक्तेनावक्रमार्गेण गच्छता // 433 // ततो भावार्थविदुषा मयेदं परिचिन्तितम् / रागाद्युपद्रुतं चित्तं विषयेषु प्रवर्तते // 434 // प्रवृत्तस्य च तेष्वस्य जायते कर्मगुण्डनम् / ततस्तस्यार्द्रता या स्यात् सा भोगस्नेहवासना // 435 // ततो भवन्ति संसारसंस्काराश्च क्षतोपमाः / व्यथयन्ति ततश्चित्तं सर्वे रागाद्युपद्रवाः / / 436 / / मूषकाद्याः प्रगल्भन्ते' सर्वे रागादयस्ततः / धावति प्रेर्यमाणं तैर्भूयश्च विषयेषु तत् // 437 // पुनः कर्म पुनः स्नेहः पुनः सर्वेऽप्युपद्रवाः / तदस्मिन् चक्रके मग्नं चित्तमेतन्न मुच्यते // 438 // रक्षको वज्रदण्डोऽस्य गुरुणा मेऽभ्यधायि यः / तमप्रमादमादाय वारयिष्यामि तद् दृढम् // 439 // भावयिष्यामि संसारविलासं स्वप्नसन्निभम् / निवर्त्यते ततश्चित्तबन्धो मे भवजालतः // 440 // अनाघभ्यासतस्तच्च बहिर्गच्छत् पुनः पुनः / आत्मन्येव समाधाय स्थापयिष्यामि यत्नतः // 441 // तथेदं शिक्षयिष्यामि बहिनिर्यासि चित्त ! किम् / स्वरूपे तिष्ठ निभृतं यथाऽऽनन्दे निमज्जसि // 442 / / किं बहिर्निधये स्वान्त्र ! भ्रान्त्वा भ्रान्त्वा विषीदसि / निधिं स्वसन्निधावेव स्थिरता दर्शयिष्यति // 443 // ज्ञानदुग्धं विनश्येत लोभविक्षोभकूर्चकैः / अम्लद्रव्यादिवैश्वर्यादिति मत्वा स्थिरीभव // 444 // त्वयाऽन्तःस्थं महाशल्यमस्थैर्य यदि नोद्धृतम् / क्रियौषधस्य को दोषस्तदा गुणमयच्छतः // 445 // स्थैर्यरत्नप्रदीपश्चद् दीप्रः सङ्कल्पदीपजैः / तत्कुतर्केरलं धूमैरलं धूमैस्तथाऽऽश्रवैः // 446 // उदीरयिष्यसि स्वान्त ! यद्यस्थैर्यमहानिलम् / समाधेर्धर्ममेघस्य घटां विघटयिष्यसि // 447 // हित्वा बहिर्भमं चित्त ! तदात्मन्येव सञ्चर / तवात्मचारो निर्वाणं बहिश्चारो भवोदधिः // 448 // सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् / बहिश्च परवत्ता ते सुखं स्वाधीनमात्मनि // 449 // दन्दह्यमानं भोगाग्नौ बहिर्भमसि सम्भ्रमात् / धृतं शमामृतभृते किं चित्तात्मनि ताम्यसि / / 450 / / तिष्ठात्मन्येव तच्चित्त ! गुणपूणे निराकुलम् / अत्र स्थितस्य ते भोगस्नेहशोषाद् रजःक्षतिः / / 451 // दुर्वासनाव्रणानां च रोहणं ते भविष्यति / ततस्तव्याधिहीनस्य भोगरागो विनयति // 452 / / ये मुहूर्त सुखाभासाद् भुक्ताः स्युः क्षतवर्धनाः / तेषु भोगेषु का वाञ्छा निर्वाध पदमाश्रय // 453 // शिक्षयित्वेदमित्येवं चित्तं तद्रक्षणोद्यमम् | करिष्यामि बहिर्धावद्वारयिष्यामि सर्वदा // 454|| तत्पीडकान् कषायाद्यान् हनिष्याम्यप्रमादतः / भावीदं तेन विक्षिप्तयातायातदशोर्ध्वगम् // 455|| श्लिष्टं भूत्वा ततः स्थास्नुस्वरूपे स्वास्थ्यमाप्स्यति / यास्यन्ति प्रलयं सर्वे ततो रागाद्युपद्रवाः // 456 // विद्योदयेन ध्यानेन प्रतिपक्षनिषेवया / उपद्रवेषु लीनेषु सुलीनं तद् भविष्यति // 457|| विमुक्तविषयग्राममात्माराममिदं ततः / घटिष्यते शिवायैव शान्तरागाद्युपद्रवम् / / 458 // तिष्ठामीत्याकलय्याहं तथा कुर्वन्निहाधुना / अकलकोऽवदद् बुद्धं त्वया साधु गुरोर्वचः / / 459 // 1. 'न्ते ततः सर्वे प्रतिक्षणम् / धा // वै-२३