SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ टिप्पणपञ्जिकाकुसुमोदगमाविटीकात्रयोपेतम् 689 प्रशस्तपादभाष्यम् कथम् ? यथेह कुण्डे दधीति प्रत्ययः सम्बन्धे सति दृष्टः, तथेह तन्तुषु पटः, 'इह वीरणेषु कटः, इह द्रव्ये गुणकर्मणी, इह द्रव्यगुणकर्मसु सत्ता, इह द्रव्ये द्रव्यत्वम्, इह गुणे गुणत्वम्, इह कर्मणि कर्मत्वम्, इह नित्यद्रव्येऽन्त्या विशेषा इति प्रत्ययदर्शनादस्त्येषां सम्बन्ध इति ज्ञायते / न्यायकन्दली नामकार्यकारणभूतानामित्यनियमकथनम् / अवयवावयविनामनित्यद्रव्यतद्गुणानां नित्यद्रव्यतत्सम'वेतानां नित्यगुणानां कर्मतद्वतां कार्यकारणभूतानां समवायः, नित्यद्रव्यतद्गुणानां सामान्यतद्वतामन्त्यविशेषतद्वतां चाकार्यकारणभूतानां समवायोऽयुतसिद्धानामिति नियमः / एवमाधार्याधारभावेनावस्थितानामित्यपि नियम एव / इहेदमिति बुद्धिर्यतः कारणाद्भवति यतश्चासर्वगतानां नियतदेशावस्थितानामधिगतान्यत्वानामधिगतस्वरूपभेदानामविष्वग्भावोऽपथग्भावोऽस्वातन्त्र्यं स समवायः, भिन्नयोः परस्परोपश्लेषस्य सम्बन्धकृतत्वोपलम्भात् / [टि०] प्रत्ययाना मवयवावयव्यादि'तादात्म्यसम्बन्धनिमित्तत्वाभ्युपगमात् सिद्धसाधनमिदम् ? नवम्, भिन्नसम्बन्धिद्वयस्वीकारे तादात्म्यं समवायपर्याय एव स्यात / अथाभिन्नौ सम्बन्धिनावेव तादात्म्यं तांभिन्नयोः सम्बन्धाभावे 'न' सिद्ध माधनता, सम्बन्धस्य सम्बन्धिद्वयाधारत्वादिति / / छ / / [पं०] अत्र कारणानि आत्मादी[नि ], कार्या बुद्धयादयः / कर्मतद्वतामिति (कं. 325.14) कर्माणि च उत्क्षेपणादीनि तदन्तश्च कर्मवन्तः, तेषां कर्मतद्वताम् / अत्रापि कारणानि कर्माणि कार्यास्तद्वन्तः। कार्यकारणभूतानामिति (कं. 325.14) कारणकार्य भूतानामिन्यर्थः / अल्पस्व रत्वात्तु कार्यशब्दस्य पूर्वनिपात: / नित्यद्रव्यतद्गुणानामिति (कं. 325.15) त्पीति (क. 325) साधारणतयाऽयमपि संयोगाद् व्यावर्तको धर्म इत्यर्थः / यतश्चेति (कं. 325) भाष्यं लक्षणपरं द्रष्टव्यम् / एतदेवेति (कं. 325) प्रमाणदर्शनेनेति शेषः / 1 इह तन्तुषु पटः, इह द्रव्ये द्रव्यगणकर्माणि / 2 मिति नियम-क. 1, कं. 2 / 3 समवेतानामनित्य-कं. 1. क. 2, जे. 1 / 4 अस्वातन्त्र्य समवाय:-जे. 1 जे. 2, जे. 3 / 5 मवयव्यादि-अ। 6 तादात्म्यं-ड। 7 साधनता-ड। 87
SR No.004336
Book TitleNyayakandali
Original Sutra AuthorN/A
AuthorJ S Jetly, Vasant G Parikh
PublisherOriental Research Institute Vadodra
Publication Year1991
Total Pages748
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy