________________ म्यायकन्दलीसंवलितप्रशस्तपादमाध्यम् / प्रशस्तपादभाष्यम् [256] तत्र सत्तासामान्यं परमनवृत्तिप्रत्ययकारणमेव / यथा परस्परविशिष्टेष चर्मवस्त्र. कम्बलादिष्वेकस्मानीलद्रव्याभिसम्बन्धा'नीलं नीलमिति प्रत्ययानुवृत्तिः, तथा परस्पर. विशिष्टेषु द्रव्यगुणकर्मस्वविशिष्टा सत्सदिति प्रत्ययानुवृत्तिः / सा 'चार्थान्तराद् सम्बन्धाद् भवितुमर्हतीति यत्तदर्थान्तरं सा सत्तेति सिद्धा / 'सत्तानसम्बन्धात् सत्सदिति प्रत्ययानवत्तिः, तस्मात् सा सामान्यमेव / न्यायकन्दली - कथमिति परस्य प्रश्नः / कथमनेकेषु पिण्डेषु सामान्यस्य वृत्तिरवगम्यत इत्यर्थः / उत्तरमाह-प्रतिपिण्डमिति / पिण्डं पिण्डं प्रति सामान्यापेक्षं यथा भवति, तथा ज्ञानोत्पत्तौ सत्यां योऽभ्यासप्रत्ययस्तेन यः संस्कारो जनितः, तस्मादतीतस्य ज्ञानप्रबन्धस्य ज्ञानप्रवाहस्य प्रत्यवेक्षणात् स्मरणाद् यदनुगतमस्ति. तत्सामान्यम् / किमक्तं स्यात् ? एकस्मिन् पिण्डे सामान्यमुपलभ्य पिण्डान्तरे तस्य प्रत्यभिज्ञानादेकस्यानेकवृत्तित्वमवगम्यते / अत एवात्र बाधकहेतवः प्रत्यक्षविरोधादपास्यन्ते / [256] यत्पूर्वमुक्तं परमपरं च द्विविधं सामान्यमिति तदिदानी विविच्य कथयतितत्र परं सत्तासामान्यमनुवृत्तिप्रत्ययकारणमेव / यद्यपि प्रत्यक्षेण प्रतीयते सत्ता, तथापि विप्रतिपन्नं प्रत्यनुमानमाह-यथा परस्परविशिष्टेष्विति / तद्वचक्तम् / द्रव्यादिषु सत्सदितिप्रत्ययानुवृत्तिः व्यतिरिक्तप्रत्ययनिबन्धना, भिन्नेषु प्रत्ययानुवृत्तित्वात्, चर्मवस्त्रादिषु नीलप्रत्ययानुवृत्तिवत् / यस्मात् सत्ता त्रिषु द्रव्यादिषु प्रत्ययानुवृति करोति न व्यावृत्तिम्, तस्मात् सामान्यमेव न विशेष इत्युपसंहारार्थः / [टि०] ज्ञानमशक्यसङ्केतं तथा आकारोऽपीत्यर्थः / तदेव सामान्यमित्यादि :- 'भेदाभावोऽर्धरूपम्, स्वलक्षणमेकम् - 1, विकल्पज्ञानं द्वितीयम् - 2, ज्ञानाकारस्तृतीयम् - 3, तदाकारस्य बहिरारोपश्चतुर्थरूपम् - 4, इत्येवम धंपञ्चमरूपं [256 to 258] प्राणिगतानीति (कं. 314) द्रव्यस्य पृथिवीत्वादिवत्पृथिवीत्वस्यागोत्वादयोऽवांतरविशेष इत्यर्थः / एवं नीकत्वादयोऽपि रूपत्वस्य कत्व-वत्वादयः शब्दस्येति / कि द्रव्यत्वादीनामिति (कं. 314) / 1 वन्यस्मान्-दे। 2 नीलभिति-दे। 3 चार्थान्तराद् भवितुं-कं. 1, कं. 2 / / 4 सत्तासम्बन्धात्-व्यो. (687), दे। 5 अत एव तत्र-कं. 1, कं. 2, अत एव चात्र-जे. 2 / 6 द्रव्यादिषु-जे. 1, द्रव्यादिषु त्रिष-जे जे. 3 / 7 तदेव च म. जे. 1, 3; तदेव-जे. 2 / 8 भेदोऽभावो - अ, ब / 9 मर्धपञ्चमाकारमुच्यते-।