________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् . ... 501 न्यायकन्दली 'इतोऽपि शब्दो नानुमान देशविशेषे स्वार्थव्यभिचारात् / न धूमो वह्नि क्वचिद्वयभिचरति, शब्दस्तु स्वार्थ व्यभिचरति / तथा हि चौर इति भक्ताभिधानं दाक्षिणात्यानाम्, आर्यावर्तनिवासिनां तु तस्कराभिधानम् / 'यदि च शब्दोऽनुमानं त्रैरूप्यप्रतीत्याऽस्य प्रामाण्यनिश्चयः स्यात्, नाप्तोक्तत्वप्रतीत्या; तत्प्रतीत्या तु निश्चीयमाने 'प्रामाण्येऽनुमानाद्वयतिरिच्यत एव / वैधात् / अत्रोच्यते-यदूर्वीकृतायां तर्जन्यां देशकालव्यवहितेष्वर्थेषु दशसंख्यानुमानं न तत्र 'दशसंख्या र्धामणी, अप्रतीयमानत्वात्। नापि तर्जनीविन्यासो धर्मी, तस्य प्रतिपाद्यमानया दशसंख्यया सह सम्बन्धान्तराभावेन तद्विशिष्टप्रतिपादनायोगात् / नाप्यनयोरेकदेशता, नाप्येककालत्वम् कथमनुमानप्रवृत्तिः ? क्रयविक्रयव्यवहारे वणिजां तथाविधतर्जनी [टि०] विवक्ष प्रतिपादनद्वारेणार्थप्रतिपादकत्वाद् गौणवृत्तित्वम् / सिद्धान्तवाद्याह 'नकस्य शब्दस्य इति - स्वाभाविक 'हि सम्बन्धेऽभ्युपगम्यमाने येनैवार्थेन शब्दस्य निरुपाधिः सम्बन्धस्तत्रैव तस्य प्रयोगः स्यान्न पुनर्ना नाविधेष्विति / सिद्धान्तवाद्याह न तुल्य एव तावद् इति / अनेकार्थेषु च शब्देषु न सवैरथैः सहानोपाधिक: सम्बन्धो घटत इति / [पं०] यदि शब्दोऽनुमा[न]मिति ( कं. 214.16 ) अतः पुरस्तादित्यध्याहार्यम् / तत्प्रतीत्येति ( कं. 214.18 ) भाप्तोक्तत्वात् प्रतीत्या। . अथ श्रीधरः पराभ्युपगते चेष्टारूपेऽनुमानेऽपि शब्देन सह तुल्यदोषतां दर्शयन्साह अत्रोच्यते (कं. 214.19) इत्यादि / ऊर्बोकृतायां तर्जन्यामिति (कं. 214.19) ज्ञानं हस्तमध्यास्विति ज्ञेयम् / अप्रतीयमानत्वादिति (कं. 214.20) अप्रतीयमानश्च धर्मी न भवति / सम्बन्धान्तराभावेनेति (कं. 214.21) प्रतिपाद्यतिरिक्तसम्बन्धाभावेन / तरिशिष्टप्रतिपादनायोगादिति ( कं. 214.21) दशस याविशिष्टत्वं हि क्रियादिवस्तूनामेव न तर्जनीविन्यासस्येति भावः / [कु०] नाप्तोक्तादपि शब्दार्थप्रतीतिर्भवत्येव, प्रामाण्यायाप्तोक्तत्वमनुसृयते / अन्यथाऽनाप्तवाक्यानंतरं प्रवृत्यनुपपत्तेरिति विवक्षायामप्यस्य न्यायस्य तुल्यत्वात् / साऽपि हि स (त)स्याऽविच्छेदकमथं गमयत्येव / प्रामाण्याय चाप्तस्वं विवक्षितुमनुसराम इति सुवचत्वात् / . अथ मतं-पृथक् प्रमाणं भवतु / शब्दोऽर्थप्रतिपादनाय स्वज्ञानमात्रमपेक्षते / तच्चाप्तोक्तस्यापि संगच्छते। लिङ्गत्वेन चाश्रीयमाणा विवक्षा साध्यताव्यभिचारज्ञानमप्यपेक्षते / तस्मादनाप्तविवक्षायामविवक्षायामर्थम्यभिचारो दूषणमिति / मा एवम् / अस्यापि न्यायस्य शब्देऽपि समानत्वात् / न हि शब्दोऽपि स्वरूपज्ञानमात्रेणार्थ प्रत्याययति / तथा सत्य-त्यन्नस्याप्यर्थप्रतीतिप्रसंगात् / संगतिग्रहणं स्वरूपज्ञानमित्येतावन्मात्र अपेक्षत इति चेत्, न / क, ख, ग, घ, टेति सिद्धमातृकापाठे गृहीतसंगतिकस्य खगेत्यनेन पक्षिसम्बन्धिप्रतीतिप्रसंगात् / तत्र तद्विवक्षाभावान्नेति चेत, तहि विवक्षान्तर्भाव्येव शब्दस्यार्थ 1 देशविशेषेऽर्थ-कं 1, कं. 2 / 2 प्रामाण्यो-जे. 3 / 3 संख्या-कं. 1, कं. 2 4 मानतया-कं. 1; कं. 2 / 5 न शब्दस्यैकस्य मु. 6 तु-ड। 7 नाविधिष्वति-अ, ब; नानाविधिष्विति-क।