SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ 348 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली यथायं द्रव्यमारभते, यथा च गुणकर्मणी, तं प्रकारं दर्शयति-द्रव्यारम्भ इत्यादिमा। द्रव्यस्यारम्भे कर्तव्ये संयोगः 'स्वाश्रयं स्वस्य निमित्तकारणमन्तरेण नान्यदपेक्षते / न त्वयमनपेक्षार्थः पश्चाद्भावि निमित्तान्तरं नापेक्षत इति, श्यामादिविनाशामन्तरभाविनोऽन्त्यस्य परमाण्वग्निसंयोगस्य पाकजामां गुणानामपि आरम्भे निरपेक्षकारणत्वप्रसङ्गात् / कथमेतदवगतं त्वया यदयं द्रव्यारम्भे निरपेक्षः संयोग इति ? तत्राह"तथा भवतीति 'सापेक्षेभ्यो निरपेक्षेभ्यश्च' (10-7) इति वचनात्, पटार्थमुपक्रियमाणेभ्यस्तम्तुभ्यो 'भविष्यति पटः' इति प्रत्ययो जायत इति पूर्व प्रतिपाद्य सूत्रकारेणैतयुक्तम्"-तथा भवतीति सापेक्षेभ्यो निरपेक्षेभ्यश्चेति / अस्यायमर्थो यथोपक्रियमाणेभ्यो भविष्यति पट इति प्रत्ययस्तथा सापेक्षेभ्यो मिरपेक्षेभ्यश्चेति भतीप्ति 'वर्तमानप्रत्ययः, भन्यथा साक्षेभ्यो निरपेक्षेभ्यश्चेति भवतीति वर्तमानप्रत्ययो न स्यात, यदा कतिचित्तम्तवः संयुक्ता बर्तन्ते कतिचिच्चासंयुक्तास्तदा तेभ्यो “भवति पट" इति प्रत्ययः [टि०] 'पटस्य उत्पत्तेः / बुद्धयादौ त्वात्म मनःसंयोगोपनायकादृष्टव्यतिरिक्तमप्यदृष्टं बुद्धपत्पत्ति प्रत्यपेक्षणीयमस्ति; कदाचिदात्म मनः संयोगे सत्यपि तस्या भावाद् बुढ्यनुत्पत्तिदर्शनात् / 'धर्मादीत्यादिवान्दादिन्द्रियसंस्कारसुखसाधनादिग्रहणम् / [पं०] निरपेक्षत्वं संयोगस्येत्यर्थः / यद्यपि औष्ण्याख्यनिमित्तान्तरं सापेक्षत्वं तत्रास्ति तथापि पश्चाद्धावित्वं तस्य नास्ति / अथ च द्रव्यारम्भ एव निरपेक्षत्वं संयोगस्येत्यर्थः / निरपेक्षकारणत्वप्रसङ्गादिति (कं. 142.11) अथ च तत्र संयोगः सापेक्षकारणं त्व औष्ण्यापेक्षत्वादित्यर्थः / श्यामादीत्यादिगद्यस्य तु समुदितस्यायं भावः / न खल्वत्राप्यपेक्षणीयं उष्णस्पर्शलक्षणं पश्चाद्भवति किन्तु संयोगपूर्वकालमपि तदस्ति न चायं संयोगः पाकजरूपाद्युत्पत्ती निरपेक्षः उष्णस्पर्शसापेक्षत्वात् तस्माद्व्योमशिवव्याख्यानं न किञ्चिदिति तात्पर्यम् / संयुक्ता इति (कं. 142.18) अनपेक्षाः / भसंयुक्ता इति (कं. 142.18) सापेक्षाः / [कु०] किन्तु प्रत्यक्षमेव प्रमाणं निरपेक्ष्ये [दं] दर्शितमिति दर्शयति 'यत्पार्थिवपरमाण्विति (कं. 142.23) इदमाप्योष्णतारतम्येन रक्तादितारतम्यदर्शनादनमानं प्रमाणं दर्शितम् / 'धर्माद्यपेक्षत्वमिति (कं. 143.1) इन्द्रियसन्निकर्षाद्यपेक्षमित्यर्थः / ननु संयोगस्य द्रव्याद्यसमवायिकारणतया सिविः / सा च द्रव्यसमवायिकारणत्वे [तत् प्रत्यासत्त्या वक्तव्या। तदेव तदनुपपन्नं, विश्वस्य शून्योपादानत्वादिति शङ्कते बीज'नाशेति (कं. 143.2) आनन्तर्यनियमो हि कारणत्त्वम् / स च मृत्पिण्डप्रध्वंसस्य प्रागभावस्य च साक्षात् प्रतीयते न तु मृत्पिण्डस्येति भावः / परिहरति 1 स्वाश्रयं स्वनिमित्तं-कं. 1, कं. 2; स्वाश्रयस्वनिमित्त - जे.२। 2 वर्तमानप्रत्यय: स्यात् यदा कतिचित्तम्सवः - जे. 1, जे. 2 / 3 पटोत्पत्तेः- अ, ब, क; 4, 5 त्मनः-ब, क; 6 धर्मादित्यादि-म; 7 तत् - कं / 8 धर्माद्यपेत-ह. लि। ९विनाश-कं /
SR No.004336
Book TitleNyayakandali
Original Sutra AuthorN/A
AuthorJ S Jetly, Vasant G Parikh
PublisherOriental Research Institute Vadodra
Publication Year1991
Total Pages748
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy