________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपैतम् 327 प्रशस्तपादभाष्यम् [135] परिमाणं मान व्यवहारकारणम् / तच्चतुर्विधम्-अणुमहद्दीर्घ ह्रस्वं 'चेति / तत्र महद द्विविधम्-नित्यमनित्यं च। नित्यमाकाशकालदिगात्मसु परममहत्त्वम् / अनित्यं त्र्यणुकादावेव / न्यायकन्दली कादाचित्कः प्रत्यक्षप्रतिभासः, स एव प्रतीतिविषयं देशकालकारणस्वभावनियतं बाह्यं वस्तु व्यवस्थापयंस्तदभावसाधनं बाधत इति कालात्ययापदिष्टत्वमपि हेतूनामित्युपरम्यत / समधिगता संख्या // [135] सम्प्रति परिमाणनिरूपणार्थमाह -परिमाणं मानव्यवहारकारणमिति / मानव्यवहारोऽणु महद्दीर्घ ह्रस्वमित्यादिज्ञानं शब्दश्च, 'तस्य कारणं परिमाणमित्यनेन प्रत्यक्षसिद्धस्यापि परिमाणस्य विप्रतिपन्नं प्रति कार्येण सत्तां दर्शयति / यथा तावज्ज्ञानस्य ज्ञेयप्रसाधकत्वं तथोक्तम् / [रि०] [135] ( // अथ परिमाणनिरूपणम् / / ) परिमाणम् इति - अर्थविशेषणं मान व्यवहकार कारणं परिमाणमिति लक्षणम्, 'बुद्धयालोकादिव्यवच्छेदार्थ. [पं०] सा इति (कं. 130.8) वासना बाह्या सती। उपादानस्येति (कं. 130.10) कारणस्य / अस्मिन्पक्षे इति (कं. 130.11) स्वच्छ संवित्पक्षे / तत्प्रत्ययानुपपत्तिरिति (कं. 130.13) कादाचित्कप्रत्ययानुपपत्तिः / स्वव्यतिरिक्तस्येति (कं. 130.13) स्वसत्तामात्रव्यतिरिक्तस्येत्यर्थः / प्रतीतिविषयमिति (कं. 130.17) प्रतीतेविषयम् / तदभावसाधनमिति (कं. 130.18) अत्र तच्छब्देन बाह्यार्थः / सङ्ख्यागुणविवरणं समर्थितम् / [135] अथ परिमाणगुणविवरणम् / तथोक्तमिति (कं. 132.8) अनन्तर एव वादे / [कु०] सा यदि बाह्येति (कं. 130.8) भिन्नं पदत आगन्तुकसामग्र्यानुप्रदे (वे)?शात् कादाचिस्कत्वं नीलादिप्रत्ययानामित्यत आह स्वव्यतिरिक्तस्येति (कं. 130.13) / बाह्यार्थे प्रत्यक्ष प्रमाणमुपदर्शयन् दूषणान्युपसंहरति अस्ति चायमिति (कं. 130.16) // [इति सङ्ख्या ] [135] ननु मानमियन्ता तद्वयवहारकारणत्वं सङख्यागुरुत्वयोरप्यस्ति तत्कथं नातिव्याप्तिरित्यत आह मानव्यवहार इति (कं. 132.6) / अत्रैव मुख्यो मानव्यवहारः प्रसिद्ध इत्यर्थः / न तु प्रसिद्धलक्षणवैयर्थ्यमत आह तस्य कारणमिति (कं. 132.6) / तथोक्तं-नि [रा] लम्बनत्वनिरासेन / 1 व्यवहरणम्-दे। 2 च-दे। 3 तस्योत्पत्तिकारणं-जे. 2 / 4 कारण-अ, ब, 5 बुद्धवा -अ, ब /