SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ 286 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली केवलविशेष्यालम्बनमेवेदं 'विशेष्यज्ञानं जन्यत इत्यकामेनाप्यभ्युपगन्तव्यम् / तथा च सत्यन्येषामपि विशेष्यज्ञानानामयं न्याय उपतिष्ठते। विवादाध्यासितं विशेष्यज्ञानं केवलविशेष्यालम्बनं प्रत्यक्षत्वे सति विशेष्यज्ञानत्वात् सुरभि चन्दनमिति ज्ञानवत् / प्रत्यक्षत्वे सतीति लैङ्गिकज्ञानव्यवच्छेदार्थम् / ननु यदि द्रव्यस्वरूपमात्रमेव विशेष्यज्ञानस्यालम्बनम्, असत्यपि विशेषणे तथा प्रत्ययः स्यात / अथ विशेषणस्य जनकत्वान्न तदभावे विशेष्यज्ञानोदयः, तथापि द्रव्यरूपप्रत्यया दस्य न विशेषः, विषयविशेष मन्तरेण ज्ञानस्य विशेषान्तराभावात्, न, अनभ्युपगमात् / न 'विशिष्टज्ञानस्य द्रव्यस्वरूपमात्रमालम्बनं ब्रमः, किन्तु विशिष्टम् / विशिष्टता च स्वरूपातिरेकिण्येव, या दण्डीति ज्ञाने प्रतिभासते / न खलु तत्र पुरुषमात्रस्य प्रतीतिर्नापि दण्डसंयोगितामात्रस्य / तथा [टि०] प्रत्यक्षज्ञानमेकालम्बनमित्यस्याभिमतम् / लोङ्गकज्ञानं तु उभयालम्बनमैवाभिगतमिति तद् व्यवच्छेदः कृतः / भूषणस्तु लैङ्गिकज्ञानमप्येकालम्बनमेवाभ्युपगच्छतीति / 'न हि यथा दण्डी इति :- दण्डीत्यत्र यथा सामान्याधिकरण्येन स्वोपरक्तप्रत्ययजनकत्वं प्रतीयते न तथा (तथा) जटाभिस्तापस इति / उपसर्जनत्वं तु अर्थक्रियायामुपयोगानतिशयलक्षणं [पं०] इत्याशयः / लैङ्गिकज्ञानव्यवच्छेदार्थमिति (कं. 117.12) लैङ्गिक हि विशेष्यज्ञानं न केवलविशेष्यालम्बनं किन्तु विशेषण विशेष्योभयालम्बनमेव तत् / यतो वह्निविशेषणं पर्वतो विशेष्यस्तदालम्बनं वह्निमानिति ज्ञानम् / भूषणस्तु लैङ्गिकमप्येकावलम्बनमेवेत्य ] भ्युपगच्छति / असत्यपि विशेषणे तथा प्रत्ययः स्यादिति (कं. 117.13) . विशेषणं विनापि विशेष्यप्रत्ययः स्यान्न च भवति / यतो विशि(शे)ष्यते इति विशेष्यं विशेष्यते केन? विशेषणेनेति विशेषापेक्षणात् / द्रव्यस्वरूपप्रत्ययादस्य न विशेष इति (कं. 117.15) अस्येति विशेषणस्य / ततश्चायमर्थः - य एव प्रत्ययो विशेषणे स एव स्वरूपमात्रेपीति, अतो न विशेषः / विषयविशेषमन्तरेण ज्ञानस्य विशेषान्तराभावादिति (कं. 117.15) विषयवैशिष्टयं विना ज्ञानवैशिष्ट्य न भवतीत्यर्थः / किन्तु विशिष्टमिति (कं. 117.17) विशेष्टमेव द्रव्यस्वरूपं विशिष्टज्ञानस्यालम्बनं ब्रूम इत्यर्थः / स्वरूपातिरेकिण्येवेति (कं. 117.17) स्वरूपतोधिकैव / [कु०] विशेषणांशस्य वह्नयादेः सिद्धिः स्यादित्यर्थः / गूढाभिसन्धिः पृच्छति [नन्विति] (कं. 117.13) अतिसन्धिमद्घाटयितुं शङ्कते अथेति (कं. 117.14) / अतिसन्धिमुद्घाटयति तत्रापीति (कं. 117.15) / विशेषान्तराभावादिति द्रष्टव्यम् / लैङ्गिकत्वादयो हि विशेषा लिङ्गाद्यन्वयव्यतिरेकानुविधायितानुमेयाः / 'येनेति केवलद्रव्यप्रत्ययस्य विशेष्यप्रत्ययस्य च येन कारणेनाविशेषः स्यादित्यर्थः / नापि दण्डसंयोगितामात्रस्येति (कं. 117.18) संपातायातं परेणापि तथा नाभ्युपगमात् / विशिष्टस्योभयातिरेकसप्तमोऽभावः स्यादत आह वैलक्षण्यमिति (कं. 117.19) / ननु किमिदमुपसर्जनत्वं नाम ? न तावत्कारणत्वम्, चक्षुरादीनामपि तथात्वप्रसङ्गात् / नापि ज्ञायमानत्वे सति कारणत्वं, शब्दादेरपि तथात्वप्रसङ्गात् / नापि [स्वोपरक्तप्रतीतिहेतु:] स्वोपरक्तप्रतीतिहेतुत्वस्यैव विचार्यमाणत्वात् / तादात्म्य [मिति चेत् धम्मिणोस्तदनुपपत्तेः, भेदप्रयुक्तो हि धर्मधर्मिभावः / भेदाश्रयणादयमदोष इति 1 विशिष्टं ज्ञानं - जे. 1, जे. 2 / 2 दस्याविशेष: - जे. 1, जे. 2 / 3 विशेष्यज्ञानस्य - कं. 1, कं. 2 / 4 च्छेदाकृतः-अ। 5 न हि यथा दण्डीति प्रतीकं अबपुस्तकयो स्ति, कपुस्तके तु प्रतीकमस्ति किन्तु तदनन्तरं 'च नहि यथा' इति पाठोऽप्यस्ति। 6 [ ] एतच्चिह्नान्तर्गत: पाठोः व पुस्तके नास्तित 7 तथापि-कं / 8 प्रतीकमिदं कन्दल्यां नोपलभ्यते-सं.।
SR No.004336
Book TitleNyayakandali
Original Sutra AuthorN/A
AuthorJ S Jetly, Vasant G Parikh
PublisherOriental Research Institute Vadodra
Publication Year1991
Total Pages748
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy