SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 122 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली प्रत्याकारं भेदः, एकस्यानेकाकारग्रहणानुपपत्तौ भवतां चित्र'प्रतीत्यभावप्रसङ्गात् / नापि विज्ञानैकत्वादाकाराणामप्येकत्वम्, चित्रानुभवविरोधात् / 'यथैकावयवावच्छिन्ने एकावयविस्वभावेऽवयवान्तरसमावेशः प्रत्यक्षेणानेकावयवसम्बद्धस्य, तथैकस्य स्थूलात्मनः संवेदनादेकस्मिन्ननेकसंसर्गो दृष्टो नैकस्यानेकेषु संसर्ग इति च वैधर्नामात्रम्, एकस्यानेकसंसर्गावच्छेदस्योभयत्राविशेषात् / एवं च यदेकं तदेकत्रव वर्तते, यर्थक रूपमेकश्चावपवीति, तथा यदनेकवत्ति तदनेकम्, यथानेक भाजनगतानि तालफलान्यनेकवृत्तिश्चावयवीति प्रसङ्गद्वयं प्रत्याख्यातम्, स्वतः परतश्च व्याप्त्यसिद्धः, स्वतस्तावदेकं विज्ञानमनेकेषु विषयेन्द्रियमनस्कारेषु स्वरूपाभेदेन तदुत्पत्त्या वर्तते, परस्याप्येक सूत्रमभेदेनानेकेषु मणिषु संयोगवृत्त्या वर्तते, तथाऽवयव्यवयवेषु समवायवृत्त्या वत्तिष्यते नाना च न भविष्यति / सर्वश्चायं प्रसङ्गहेतुराश्रयं निघ्नन्नात्मानम पि हन्ति, अवयव्यभावे परमाणुमारे जगति धर्मम्मिदृष्टान्तादिप्रतीत्यसिौ निराश्रयस्य वृत्त्यभावात् / भतो नानेन प्रत्यक्षसिद्धोऽवयवी शक्यो निराकर्तुम्, प्रत्यक्षसापेक्षस्य तस्य ततो [वि.] सम्बद्ध ज्ञानावयविनोः सादृश्यं नास्तीति प्राह एकस्मिन्नेकेति-ज्ञाने हि एकत्राधारे बहून्याधेयानि अवयत्रीत्वेकमाधेयं "बहुष्वाधारेषु वर्तते इति भावः / एकस्य इति-ज्ञानेऽवयबिनि चैकस्य सतोऽनेकसंसर्गावच्छेदः स तुल्य एवेति / स्वतस्तावद् इति-म"नस्कारः पूर्वज्ञानक्षण: स उपादानतया, विषयेन्द्रिये तु निमित्ततया ज्ञानकारणमिति तैरनेकैः सह तदुपपत्तिसम्बन्धरूपा वृत्तिरेकस्यैव ज्ञानक्षणस्यास्ति / [पं०] भेदो भवन्मते खलु नाभ्युपगम्यते इत्यर्थः / तथेति-नापीत्यनुवृत्तिस्तथाशब्दस्यार्थः / एकावयवावच्छिन्ने इति एकावयवस्वीकृते / अवयवान्तरसमावेश इति-अवयवान्तरेण सह समावेश इति समासः / एकावयवछिन्ने एवा(का) वयविस्वभावेऽवयवान्तरसमावेश इति--परोक्तस्यानुवाद एषः / एकस्मिन्निति = ज्ञाने / अनेकसंसर्ग इति -अनेकेषां नीलाद्याकाराणां संसर्गः / अनेकसमावेश इति पाठान्तरम् / अर्थः = समान एवानेकस्यानेकेषु संसर्ग इति / अत्र एकस्येति कोऽर्थः ? अवयविनः / अनेकेष्विति कोऽर्थः? = अवयवेषु / इति च वैधर्म्यमात्रमिति-इह चतुर्विशति [कु०] (कं. 42.22) सिद्धौ वृत्तिमनस्थायित्वापत्ताविति भावः / तत्स्वरूपेणेति (कं. 42.23) एकदेशवृत्तिविकल्पः / एकस्थानेकत्रवृत्तिमिणं बाधते इति कर्तव्य इति भावः / चित्रप्रतीत्यभावप्रसङ्गादिति (कं. 42.26) अस्माभिरिव चित्रस्थानङ्गीकारात् / प्रत्ययस्य चानङ्गीकारे चित्रव्यवहारविलोपप्रसङ्गादिति भावः / नापीति (कं. 431) आकाराकारिणोरभेदादिति भावः / चित्रानभवविरोधादिति (कं. 43.1) अनेकाकारवादक। 1 प्रत्ययाभाव - कं. 1, कं. 2 / 2 नापि ज्ञानकत्वाद-कं. 1, कं. 2 / 3 तथा-जे. 1, जे. 3 / 4 तस्यकस्य -जे. 1, ने.३। 5 एवं यदेक-कं. 1, कं. 2 / 6 भाजनगतताल°-कं. 1, कं. 2 / 7 प्रत्याख्येयम्-जे.१, जे. 3 / 8 उपहन्ति - जे. 1, जे. 2 / 9 न्ननेके इति - अ, ब; 10 बहुत्वाधारेषु -- अ, ब, 11 स्कारपूर्व - अ, ब;
SR No.004336
Book TitleNyayakandali
Original Sutra AuthorN/A
AuthorJ S Jetly, Vasant G Parikh
PublisherOriental Research Institute Vadodra
Publication Year1991
Total Pages748
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy