________________ 24-25] शतकनामा पञ्चमः कर्मग्रन्थः। मोहावस्थायामेवायुःक्षयेण मृत्वाऽनुत्तरसुरेषु समुत्पद्यते तदा प्रथमसमय एव सप्तदशविधबन्धं बनतो द्वितीयोऽवक्तव्यबन्धः / तदेवं मोहनीये नव भूयस्कारबन्धा अष्टावल्पतरबन्धा दशावस्थितबन्धा द्वाववक्तव्यबन्धाविति भावितम् / उक्तं च नव भूअगारबन्धा, अटेव हवंति अप्पतरबंधा / दो अवत्तगबन्धा, अवट्ठिया दस उ मोहम्मि // (बृहच्छतकबृहद्भाष्यगाथा 261 ) इति // 24 // सम्प्रति नामकर्मप्रकृतिषु भूयस्कारादिबन्धान प्रतिपिपादयिषुराहतिपणछअहनवहिया, वीसा तीसेगतीस इग नामे / छस्सगअट्ठतिबंधा, सेसेसु य ठाणमिक्किकं // 25 // "नामे" ति नामकर्मणि बन्धस्थानान्यष्टौ भवन्ति / तद्यथा-विंशतिशब्दस्य प्रत्येक सम्बन्धात् त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशद् एका चेति / उक्तं च सप्ततिकायाम्. तेवीस पन्नवीसा, छब्बीसा अट्ठवीस गुणतीसा।। तीसेगतीसमेगं, बंधट्ठाणाणि नामस्स // ( गा० 25) तत्र वर्णचतुष्क-तैजस-कार्मणा-ऽगुरुलघु-निर्माण-उपघातम् इत्येता नव प्रकृतयो ध्रुवबन्धिन्यः, सर्वैरपि चतुर्गतिकजीवैरप्राप्तविशिष्टगुणैः प्रतिसमयमवश्यं बध्यमानत्वात् ; तथा तिर्यग्गतिः तिर्यगानुपूर्वी एकेन्द्रियजातिः औदारिकशरीरं हुण्डसंस्थानं स्थावरं बादर-सूक्ष्मयोरन्यतरद् अपर्याप्तकं प्रत्येक-साधारणयोरन्यतरद् अस्थिरनाम अशुभनाम दुर्भगनाम अनादेयनाम अयशःकीर्तिनाम इत्येताश्चतुर्दश प्रकृतयो ध्रुवबन्धिनीभिर्नवभिः सह त्रयोविंशतिरिति; एतासां त्रयोविंशतिप्रकृतीनां समुदाय एकंबन्धस्थानम् , एवमुत्तरत्रापि भावनीयम् / एतां च त्रयोविंशतिमेकेन्द्रिय-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियाणामन्यतरो मिथ्यादृष्टिरेवापर्याप्तैकेन्द्रियप्रायोग्यां बध्नाति / पञ्चविंशतिं पुनः पर्याप्तैकेन्द्रियप्रायोग्यां तत्रोत्पादयोग्या नानाजीवा बध्नन्ति / तत्र च त्रयोविंशतिः पूर्वोक्तैव पराघात-उच्छ्वासाभ्यां सह पञ्चविंशतिर्भवति, नवरमपर्याप्तकस्थाने पर्याप्तकं, स्थिरा-ऽस्थिर-शुभा-ऽशुभ-यशःकीर्ति-अयशःकीर्तीनां परावृत्तिर्वाच्या, एवमेषा पञ्चविंशत्तिरन्येषामपि विकलेन्द्रियादिजीवानां प्रायोग्या नानाभङ्गैः सम्भवति, केवलं ग्रन्थविस्तरमयाद् नेहोच्यते, सप्ततिकाटीकायां तद्विस्तरोऽन्वेषणीयः। एवमुत्तरेष्वपि बन्धस्थानेषु गमनिकामात्रमेवाभिधास्यत इति / एषैव पञ्चविंशतिरातप-उद्योतयोरेकतरप्रक्षेपे षड्विंशतिर्भवति, सा च पर्याप्तैकेन्द्रियप्रायोग्यैव बध्यते नान्यप्रायोग्या, बन्धकाश्च तत्रोत्पादयोग्या जीवा द्रष्टव्याः / अष्टाविंशति तु देवगतिप्रायोग्यां तिर्यङ्-मनुष्यास्तत्प्रायोग्यविशुद्धा बध्नन्ति / तद्यथा-देवगतिः देवानुपूर्वी पञ्चेन्द्रियजातिः वैक्रियशरीरं वैक्रियाङ्गोपाङ्गं समचतुरस्रसंस्थानम् उच्छासनाम परायातनाम प्रशस्तविहायोगतिनाम त्रसनाम बादरनाम पर्याप्तकनाम प्रत्येकनाम स्थिरा-ऽस्थिरयोः १नव भूयस्कारबन्धा अष्टैव भवन्त्यल्पतरबन्धाः / द्वाववक्तव्यबन्धौ अवस्थिता दश तु मोहे // प्रयोविंशतिः पञ्चविंशतिः षड्विंशतिः अध्याविंशतिः एकोनत्रिंशत् / त्रिंशदेकत्रिंशदेकं बन्धस्थानानि नाम्नः।।