________________ 92] शतकनामा पञ्चमः कर्मग्रन्थः / स्थिरा-ऽस्थिरयोरेकतरं शुभा-ऽशुभयोरेकतरं सुभगनाम सुस्वरनाम आदेयनाम यशःकीर्तिअवशःकीयोरेकतरं निर्माणमितिलक्षणां वा निर्वर्तयन् उत्कृष्टयोगे वर्तमान उत्कृष्टप्रदेशबन्धं करोति / एकोनत्रिंशतोऽधस्तनबन्धेष्विदं न बध्यते, त्रिंशद्वन्धे तु बध्यते, केवलं भागबाहुल्यात् तत्रोत्कृष्टप्रदेशबन्धो न लभ्यत इत्येकोनत्रिंशद्वन्धगतस्यैव ग्रहणमिति सम्यग्दृष्टि-मिथ्यादृष्योरविरोधेन भावितस्त्रयोदशानामपि प्रकृतीनामुत्कृष्टः प्रदेशबन्ध इति // 91 // निहापयलादुजुयलभयकुच्छातित्थ सम्मगो सुजई। आहारदुर्ग सेसा, उक्कोसपएसगा मिच्छो // 12 // निद्रा अचला द्वयोयुगलयोः समाहारो द्वियुगलं-हास्य-रति-अरति-शोकाल्यं, भयं "कुच्छ" ति जुगुप्सा "तित्थ" ति तीर्थकरनामेत्येतत् प्रकृतिनवकं सम्यग् गच्छति ज्ञानादिमोक्षमार्गमिति सम्यग्गः-सम्यग्दृष्टिः उत्कृष्टयोगे वर्तमान उत्कृष्टप्रदेशं बध्नाति / तत्र निद्रा-प्रचलयोरविरतसम्यग्दृष्ट्यादयोऽपूर्वकरणान्ताः सर्वोत्कृष्टयोगे वर्तमानाः सप्तविधक्न्धकाले एकं द्वौ वा समयावुत्कृष्टं प्रदेशबन्धं कुर्वन्ति, आयुर्द्रव्यभागोऽधिको लभ्यत इति सप्तविधबन्धकग्रहणम् / स्त्थानर्द्धित्रिकं सम्यग्दृष्टयो न बनन्त्यतस्तद्भागलाभोऽपि भवतीति सम्यग्दृष्टीनामेव ग्रहणम् / मिथ्या दृष्टि-सास्वादनौ स्त्यानर्द्धित्रिकं बनीत इति नेह गृहीतौ / मिश्रस्त्वेतद् न बध्नाति, केबलगुरुनीत्या तस्योत्कृष्टयोगो न लभ्यत इति सोऽपि नेहाधिकृतः / हास्य-रति-अरति-शोक-भयमुगुप्सानां तु ये ये सम्यग्दृष्टयोऽविरताद्यपूर्वकरणान्तानां मध्ये तद्वन्धकास्ते ते उत्कृष्टयोगे वर्तमाना उत्कृष्टं प्रदेशबन्धमभिनिर्वतयन्ति, मिथ्यात्वभागो लभ्यत इति सम्यग्दृष्टिग्रहणम् / तीर्थकरनामोऽप्यविरताद्यपूर्वकरणान्तः सम्यग्दृष्टिर्मूलप्रकृतिसप्तविधबन्धको देवगतिः देवानुपूर्वी पञ्चेन्द्रियजातिः वैक्रियशरीरं वैक्रियाङ्गोपाङ्गं समचतुरस्रसंस्थानम् उच्छ्वासनाम पराघातमाम 'प्रशस्तविहायोगतिः त्रसनाम बादरनाम पर्याप्तनाम प्रत्येकनाम स्थिरा-ऽस्थिरयोः शुभा-शुभयोर्यशःकीर्ति-अयशःकीयोः पृथगन्यतरं सुभगनाम सुस्वरनाम आदेयनाम वर्णचतुष्कं तैजस-कामणे अगुरुलघु उपघातनाम निर्माणमित्येतामष्टाविंशति तीर्थकरनामसहितामेकोनत्रिशतं देवगतिप्रायोग्यामुत्तरप्रकृतीर्बध्नन् उत्कृष्टयोगे वर्तमान उत्कृष्ट प्रदेशबन्धं करोति, मिथ्यादृष्टिरेतद् न बनातीति सम्यग्दृष्टिग्रहणम् / तीर्थकरनामसहिताश्च त्रयोविंशत्यादिकाः पूर्वोक्तरूपा नाम उत्तरप्रकृतयो न बध्यन्ते / त्रिंशदेकत्रिंशद्वन्धौ तु पूर्वोक्तनीत्या तीर्थकरनामसहितौ पध्येते, केवलं तत्र भागबाहुल्यादुत्कृष्टप्रदेशबन्धो न लभ्यत इति शेषपरिहारेणैकोमत्रिंशत्मकतिबन्धग्रहणम् / तथा 'सुयतिः' शोभनसाधुः प्रस्तावादप्रमत्तयतिरपूर्वकरणश्च गृह्यते, द्वयोरपि प्रमादरहितत्वेन सुयतित्वात् , ततश्चैतौ द्वावपि देवगतिः देवानुपूर्वी पञ्चेन्द्रियजातिः क्रियशरीरं वैक्रियाङ्गोपाङ्गं समचतुरस्रसंस्थानं पराघातनाम उच्छासनाम प्रशस्तविहायोगतिः असनाम बादरनाम पर्याप्तनाम प्रत्येकनाम स्थिरनाम शुभनाम सुभगनाम सुस्वरनाम आदेयनाम यशःकीर्तिनाम वर्णचतुष्कं तैजस-कार्मणे अगुरुलघुनाम उपघातनाम निर्माणनाम आहारकशरीरम् आहारकाङ्गोपाङ्गमित्येतद् देवगतिप्रायोग्यं त्रिंशन्नामोत्तरप्रकृतिकदम्बकं बघ्नन्तौ उत्कृष्टयोगे वर्तमानौ आहारकद्विकम्-आहारकशरीरा-ऽऽहारकाङ्गोपाङ्गलक्षणमुत्कृष्टप्रदेशं बधीतः /