SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ 92 . देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः लनलोभस्यासोयगुणम् / तथा चतुर्णामप्यायुषामुत्कृष्टपदे प्रदेशाग्रं परस्परं तुल्यम् / नामकर्मण्युत्कृष्टपदे प्रदेशाग्रं गतौ देवगति-नरकगत्योः सर्वस्तोकं, स्वस्थाने तु द्वयोरपि तुल्यम् / ततो मनुजगतौ विशेषाधिकं, ततस्तिर्यग्गतौ विशेषाधिकम् / तथा जातौ चतुर्णा द्वीन्द्रियादिजातिनाम्नामुत्कृष्टपदे प्रदेशाग्रं सर्वस्तोकं, स्वस्थाने तु तेषां परस्परं तुल्यम्, तत एकेन्द्रियजातेविशेषाधिकम् / तथा शरीरनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमाहारकशरीरस्य, ततो वैक्रियशरीरस्य विशेषाधिकं, तत औदारिकशरीरस्य विशेषाधिकं, ततस्तैजसशरीरस्य विशेषाधिकं, ततः कार्मणशरीरस्य विशेषाधिकम् / एवं सङ्घातनाम्नोऽपि द्रष्टव्यम् / तथा बन्धननानि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमाहारकाहारकबन्धननाम्नः, तत आहारकतैजसबन्धननानो विशेषाधिकं, तत आहारककार्मणबन्धननाम्नो विशेषाधिकं, तत आहारकतैजसकार्मणबन्धननानो विशेषाधिकं, ततो वैक्रियवैक्रियबन्धननानो विशेषाधिकं, ततो वैक्रियतैजसबन्धननानो विशेषाधिकं, ततो वैक्रियकार्मणबन्धननानो विशेषाधिकं, ततो वैक्रियतैजसकार्मणबन्धननानो विशेषाधिकं, तत औदारिकौदारिकबन्धननाम्नो विशेषाधिकं, तत औदारिकतैजसबन्धननानो विशेषाधिकं, तत औदारिककार्मणबन्धननाम्नो विशेषाधिकं, तत औदारिकतैजसकार्मणबन्धननानो विशेषाधिकं, ततस्तैजसतैजसबन्धननाम्नो विशेषाधिक, ततस्तैजसकार्मणबन्धननाम्नो विशेषाधिकं, ततः कार्मणकार्मणबन्धननाम्नो विशेषाधिकम् / तथा संस्थाननाम्नि संस्थानानामाद्यन्तवर्जानां चतुर्णामुत्कृष्टपदे प्रदेशाग्रं सर्वस्तोकं, स्वस्थाने तु तेषां परस्परं तुल्यं, ततः समचतुरस्रसंस्थानस्य विशेषाधिकं, ततो हुण्डसंस्थानस्य विशेषाधिकम् / तथाऽङ्गोपाङ्गनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाप्रमाहारकाङ्गोपाङ्गनाम्नः, ततो वैक्रियाङ्गोपाङ्गनाम्नो विशेषाधिकं, ततोऽप्यौदारिकाङ्गोपाङ्गनाम्नो विशेषाधिकम् / तथा संहनननाम्नि सर्वस्तोकमाद्यानां पञ्चानां संहननानामुत्कृष्टपदे प्रदेशाग्रं, स्वस्थाने तु तेषां परस्परं तुल्यम्, ततः सेवार्तसंहननस्य विशेषाधिकम् / तथा वर्णनानि सर्वस्तोंकमुत्कृष्टपदे प्रदेशायं कृष्णवर्णनानः, ततो नीलवर्णनानो विशेषाधिकं, ततो लोहितवर्णनाम्नो विशेषाधिकं, ततो हारिद्रवर्णनानो विशेषाधिकं, ततः शुक्लवर्णनानो विशेषाधिकम् / तथा गन्धनानि सर्वस्तोकं सुरभिगन्धनाम्नः, ततो दुरभिगन्धनानो विशेषाधिकम् / तथा रसनानि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रं कटुरसनानः, ततस्तिक्तरसनानो विशेषाधिकं, ततः कषायरसनानो विशेषाधिकं, ततोऽम्लरसनानो विशेषाधिकं, ततो मधुररसनानो विशेषाधिकम् / तथा स्पर्शनानि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रं कर्कश-गुरुस्पर्शनानोः, स्वस्थाने तु द्वयोरपि परस्परं तुल्यम्, ततो मृदु-लघुस्पर्शनानोविशेषाधिकम् , स्वस्थाने तु द्वयोरपि परस्परं तुल्यम्, ततो रूक्ष-शीतस्पर्शनानोविशेषाधिकम् , स्वस्थाने तु द्वयोरपि परस्परं तुल्यम्, ततः स्निग्ध-उष्णस्पर्शनाम्नोविशेषाधिकं, स्वस्थाने तु द्वयोरपि परस्परं तुल्यम् / तथाऽऽनुपूर्वीनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रं देवगति-नरकगत्यानुपूर्कोः, स्वस्थाने तु द्वयोरपि परस्परं तुल्यम्, ततो मनुजगत्यानुपूर्व्या विशेषाधिकं, ततस्तिर्यग्गत्यानुपूर्व्या विशेषाधिकम् / *तथा विहायोगतिनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रं प्रशस्तविहा 1 यद्यपि * * एतत् फुल्लिकाद्वयमध्यवर्ती पाठोऽस्मत्समीपवर्तिषु एतद्वन्थस्य समेष्वप्यादर्शेषु एतादृश एव, परं प्रन्थेत्र "कर्मप्रकृत्यभिप्रायेण दृश्यते" इत्युलेखे कृतेऽपि तया सह नैष संवादी। तत्स्थाने
SR No.004335
Book TitlePancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherJain Atmanand Sabha
Publication Year1997
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy