SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ 49-50 ] शतकनामा पञ्चमः कर्मग्रन्थः। प्रदेशमेवाभ्येति, तदनन्तरं प्रन्थि प्राप्य भूयोऽपि निवर्तते, निवर्त्य च प्रभूतं स्थितिबन्धं करोतीति // 48 // निरूपितः सर्वगुणस्थानकेषु स्थितिबन्धः / साम्प्रतमेकेन्द्रियादिजीवानाश्रित्य स्थितिबन्धानामेवाल्पबहुत्वं गाथात्रयेणाह जइलहुबंधो बायर, पज्ज असंखगुण सुहमपजाहिगो। एसि अपजाण लहू, सुहमेअरअपजपज्ज गुरू // 49 // ... सर्वस्तोको यतिलघुबन्धो जघन्यस्थितिबन्ध इत्यर्थः, सूक्ष्मसम्पराये आन्तौहूर्तिक एव भवतीति कृत्वा १।ततो यतिलघुस्थितिबन्धाद् बादरपर्याप्तैकेन्द्रियस्य जघन्यस्थितिबन्धोऽसङ्ख्यातगुणः 2 / ततः सूक्ष्मपर्याप्तैकेन्द्रियस्य जघन्यस्थितिबन्धः “अहिगु" ति विशेषाधिकः 3 / ततः "एसिं" ति अनयोर्बादर-सूक्ष्मयोरपर्याप्तयोः “लघु" त्ति जघन्यस्थितिबन्धोऽधिको वाच्यः / अयमर्थः ततः सूक्ष्मपर्याप्तैकेन्द्रियस्य जघन्यस्थितिबन्धाद् बादरापर्याप्तैकेन्द्रियस्य जघन्यस्थितिबन्धो विशेषाधिकः 4, ततः सूक्ष्मापर्याप्तैकेन्द्रियस्य जघन्यस्थितिबन्धो विशेषाधिकः 5 / "सुहुमेयरअपजपज गुरु" ति ततः सूक्ष्मापर्याप्तैकेन्द्रियस्य "गुरु" ति उत्कृष्टः स्थितिबन्धो विशेषाधिकः 6, ततः "इयर" त्ति बादरापर्याप्तैकेन्द्रियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः 7, ततः सूक्ष्मपर्याप्तैकेन्द्रियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः 8, ततो बादरपर्याप्तैकेन्द्रियस्योस्कृष्टः स्थितिबन्धो विशेषाधिकः 9 // 49 // लहु बिय पजअपजे, अपजेयर बिय गुरू हिगो एवं / / - ति चउ असन्निसु नवरं, संखगुणो बियअमणपज्जे // 50 // ततः "लहु" त्ति 'लघुः' जघन्यः स्थितिबन्धः “बिय" ति द्वीन्द्रिये “पज्ज" त्ति पर्याप्ते वाच्यः / कियत्प्रमाणः ? इत्याह-"संखगुणो बियअमणपज्जे" इति वचनात् सञ्चयातगुण इत्यर्थः / ततस्तस्मिन्नेवापर्याप्तेऽधिको लघुः स्थितिबन्धः, ततोऽपर्याप्तेतरद्वीन्द्रिये गुरुः स्थितिबन्धोऽधिको वाच्यः / एवं द्वीन्द्रियोक्तप्रकारेण "ति" त्ति त्रीन्द्रियेऽपर्याप्त-पर्याप्ते लघुस्थितिबन्धौ द्वौ, त्रीन्द्रिये एवापर्याप्त-पर्याप्ते द्वौ गुरुस्थितिबन्धौ वाच्यौ / “चउ" ति चतुरिन्द्रियेऽपर्याप्त-पर्याप्ते लघुस्थितिबन्धौ द्वौ, चतुरिन्द्रिये एवापर्याप्त-पर्याप्ते गुरुस्थितिबन्धौ द्वौ वाच्यौ / "असन्निसु" ति असंज्ञिनि पर्याप्ता-ऽपर्याप्ते लघुस्थितिबन्धौ द्वौ, असंज्ञिनि एवापर्याप्त-पर्याप्त गुरुस्थितिबन्धौ द्वौ वाच्यौ / किंप्रमाणाः पुनरेते स्थितिबन्धा वाच्याः ? इत्याह-“अहिगु" त्ति 'अधिकाः' विशेषाधिका वाच्याः / किं सर्वेऽपि स्थितिबन्धा विशेषाधिका एव वाच्याः ? उताहो कुत्रचिदस्ति विशेषोऽपि ? इत्याह-"नवरं संखगुणो बियअमणपजे" त्ति 'नवरं' केवलमियान् विशेषः, सङ्ख्यातगुणो वाच्यः, पर्याप्तशब्दस्य प्रत्येकं सम्बन्धाद् द्वीन्द्रिये पर्याप्ते असंज्ञिनि पर्याप्ते; अन्यत्र सामर्थ्यात् सर्वत्र विशेषाधिक इति गाथाक्षरार्थः / भावार्थस्त्वयम्बादरपर्याप्तैकेन्द्रियोत्कृष्टस्थितिबन्धाद् द्वीन्द्रियपर्याप्तस्य जघन्यः स्थितिबन्धः सङ्ख्येयगुणः 10 ततोऽपर्याप्तद्वीन्द्रियस्य जघन्यः स्थितिबन्धो विशेषाधिकः 11 ततोऽपर्याप्तद्वीन्द्रियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः 12 ततः पर्याप्तद्वीन्द्रियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः 13
SR No.004335
Book TitlePancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherJain Atmanand Sabha
Publication Year1997
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy