SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ 194 -- देवेन्द्रसूरिविरचितखोपज्ञीकोपेतः गाथा यदाहुः श्रीहेमचन्द्रसरिपादा:-उच्यते रूढिवशाद् लिङ्गस्य न नियमः। यदाह पाणिनिःलिजमशिष्यम् , लोकाश्रयत्वात् तस्येति / . ततः काल एव तत्तद्रूपद्रवणाद् द्रव्यं कालद्रव्यम्, तत्र च कालस्य वस्तुतः समयरूपस्य निर्विभागत्वाद् न देशप्रदेशसम्भवः, अत एवात्रास्तिकायवाभावो वेदितव्यः / / नन्वतीतानागतवर्तमानमेदेन कालस्यापि त्रैविध्यमस्तीति किमिति नोक्तम् !, सत्यम् , अतीतानागतयोविनष्टानुत्पन्नत्वेनाऽविद्यमानत्वाद् वार्तमानिक एव समयरूपः सदूपः / यद्येवं तर्हि पूर्वसमयनिरोधेनैवोत्तरसमयसद्भावेऽसङ्ख्यातानां समयानां समुदयसमित्याचसम्भवादावलिकादयः शास्त्रान्तरप्रतिपादिताः कालविशेषाः कथं सङ्गच्छन्ते !, सत्यम्, तत्त्वतो न सङ्गच्छन्त एव, केवलं व्यवहारार्थमेव कल्पिता इति / अथ केऽमी आवलिकादयः कालविशेषाः / इति विनेयजनपृच्छायां तदनुग्रहाय समयादारभ्य कालविशेषाः प्रतिपाद्यन्ते / तत्र समयखरूपमेवमनुयोगद्वारे प्रतिपाद्यते, तद्यथा--- - 'से किं तं समए ! समयस्स णं परवणं करिस्सामि-से जहानामए तुम्नागदारए सिया तरुणे बल्वं जुग जुवाणे अप्मायके थिरग्गहत्थे दढपाणिपायपासपिटुंतरोरुपरिणए तलजमलजुगलपरिषनिभवाइ चम्मिट्ठगदुहणमुट्टियसमाहयनिचियगायकाए लंघणपवणजवणवायामसमत्थे उरस्सबलसमन्नागए छेए दक्खे पत्तढे कुसले मेहावी निउणे निउणसिप्पोवगए एगं. महई अडसाडियं वा पट्टसाडियं वा गहाय सयराहं हत्थमित्र ओसारिजा, तत्थ चोयए पन्नवगं एवं पवासी-जेणं कालेणं तेणं तुन्नागदारएणं तीसे पडसाडियाए वा पट्टसाडिमाए वा सयराहं हत्थमिते 1 अथ कोऽसौ समयः। समयस्य प्ररूपां करिष्यामि-असौ यथानामकः तुचागदारकः स्यात् तरुणः बलवान् युगवान् युवा अल्पात स्थिरहस्वानो दृढपाणिपादपार्श्वपृष्ठानोरुपरिणतः तलयमलयुगलपरिधनिमबाहुः चर्मेष्टकानुषणमुष्टिकसमाहतनिचितगात्रकायो लङ्घनप्लवनजवनव्यायामसमर्थ उरस्कबलसमन्वागतः छको दक्षःप्राप्ताः कुशलो मेधावी निपुणो निपुणशिल्पोपगत एका महती पटशाटिकां वा पशाटिका वा गृहीला शीघ्रं हस्तमात्रमपसारयेत् , तत्र चोदकः प्रज्ञापकमेवमवारीत्ये न कालेन तेन तुझागदारकेण तस्याः .पटवाटिकाया वा पशाटिकाया वा शीघ्रं हस्तमात्रं अपसारितं स समयो भवति ! नायमर्थः समर्थः, कस्मात् ! यस्मात् सयाना तन्तूनां समुदयसमितिसमागमेन पटवाटिका निष्पद्यते. उपरितने तन्तावच्छिन्ने भाधस्त्यस्तन्तुर्न च्छिद्यते, अन्यस्मिन् काले उपरितनस्वन्तुः छिद्यते अन्यस्मिन् काले आधस्त्यः तन्तुश्छिद्यते, तस्मादसौ समयो न भवति / एवं वदन्तं प्रज्ञापकं चोदक एवमवादीत्-येन काळेन तेन तुझागदारकेण तस्याः पटशाटिकायामा पशाटिकाया वा उपरितनस्तन्तुश्छिन्नः स समयः? न भवति, कस्मात् ? यस्मात् सत्ययानां पक्ष्मणां समुदयसमितिसमागमेनैकतन्तुनिष्पद्यते, उपरितने पक्ष्मण्यच्छिन्ने भाषस्त्यं पश्मन च्छियते, अन्यस्मिन् काले उपरितनं पक्ष्म च्छिद्यतेऽन्यस्मिन् काळे आधस्त्यं पक्ष्म छिद्यते, तस्मात् स समयो न भवति / एवं वदन्तं प्रज्ञापकं चोदक एवमवादीत् येन कालेन तेन'तुझागदारकेण तस्य तन्तोरुपरितनं पक्ष्म छिस समयः न भवति, कस्मात् ? यस्मादनन्तानो सङ्घातानां समुदयसमितिसमागमेन एक पक्षम निष्पद्यते, उपरितने सहावेऽविसङ्घातिते माधस्त्यः सङ्घातो न विसङ्घात्यते, अन्यस्मिन् काल उपरितनः सङ्घातो विसहायतेऽन्यस्मिन् काळे आधस्त्यः सङ्घातो बिसवात्सते, तस्मात् स समयो न भवति / अतोऽपि सूक्ष्मतरः समयः प्रजप्तः श्रमणायुष्मन् ! // असङ्खयेयानां समयानां समुदयसमितिसमागमेन सैकाऽऽनलिकेति प्रोच्यते //
SR No.004334
Book TitleChatvar Karmgranth
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherJain Atmanand Sabha
Publication Year1997
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy