________________ प्रेत्यभावविवेचने सर्वानित्यत्वप्रत्याख्यानम् ] न्यायभाव्यम् / 357 विनाशधर्मकं चाऽविनष्टं नास्ति / किं पुनः 1, सर्व भौतिकं च शरीरादि अभौतिकं च बुद्धयादि तदुभयमुत्पत्तिविनाशधर्मकं विज्ञायते तस्मात्तत्सर्वमनित्यमिति // 25 // न- अनित्यतानित्यत्वात् // 26 // यदि तावत् सर्वस्याऽनित्यता नित्या ? तन्नित्यत्वाद् न सर्वमनित्यम् / अथाऽनित्या ? तस्यामऽविद्यमानायां सर्व नित्यमिति // 26 // तदनित्यत्वम् अग्नेर्दाह्यं विनाश्याऽनुविनाशवत् // 27 // तस्या अनित्यताया अप्यनित्यत्वम् / कथम् ?, यथाऽग्निर्दाह्य विनाश्याऽनुविनश्यति एवं सर्वस्यानित्यता सर्व विनाश्यानुविनश्यतीति // 27 // नित्यस्याऽप्रत्याख्यानम्- यथोपलब्धि व्यवस्थानात् // 28 // अयं खलु वादो नित्यं प्रत्याचष्टे नित्यस्य च प्रत्याख्यानमनुपपन्नम् / कस्मात् ?, यथोपलब्धि व्यवस्थानात्= यस्योत्पत्तिविनाशधर्मकत्वमुपलभ्यते प्रमाणतस्तदनित्यम्. यस्य नोपलभ्यते तद् विपरीतम्, न च परमसूक्ष्माणां भूतानामाऽऽकाशकालदिगात्ममनसां तद्गुणानां च केषांचित् सामान्यविशेषसमवायानां चोत्पत्तिविनाशधर्मकत्वं प्रमाणत उपलभ्यते तस्माद् नित्यान्येतानीति // 28 // विनाशधर्मकं चाविनष्टं नास्ति= विनश्यत्येवेति विनाशानन्तरमसत्त्वात् कादाचित्कत्वं प्राप्तं तेनानित्यत्वं सिद्धम् , उत्पत्तिविनाशरहितं च किमपि न दृश्यते इति सर्वस्यानित्यत्वं सिद्धमित्यर्थः / पूर्वपक्षिणो वक्तव्यं जिज्ञासते-किमिति / पूर्वपक्षी स्वमतमाह- सर्वमिति, तदुभयम्= भौतिकं चाभौतिकं च . सर्वम् / उपसंहरति- तस्मादिति, तत्सर्वम्= भौतिकं चाभौतिकं च सर्वम् // 25 // उक्तं निराकरोति- नेति, सर्वस्यानित्यत्वं न संभवति- त्वदुक्तायाः सर्वानित्यताया नित्यत्व. संभवात् अन्यथा अनित्यताया अनित्यत्वे तद्विनाशेन सर्वस्य नित्यत्वमेव स्यादिति सूत्रार्थः / ब्याचष्टेयदीति, तन्नित्यत्वात्= अनित्यताया नित्यत्वात् / द्वितीयपक्षमाह- अथेति, तस्याम्= अनित्यतायाम् अनित्यत्वेनाविद्यमानायां सर्वमेव नित्यं स्यादित्यन्वयः / स्पष्टं सर्वम् // 26 // उक्तं पूर्वपक्षी समाधत्ते- तदिति, तत्= तस्याः= अनित्यताया अनित्यत्वमेव, यथा दाह्यं काष्ठादिकं विनाश्य= दग्ध्वा अनु= पश्चादग्नेरपि विनाशो भवत्येव अथापि दग्धस्य न पुनः सत्त्वापत्तिः तथैवानित्यतापि सर्व विनाश्य स्वयमपि विनश्यतीति न कस्यापि नित्यत्वापत्तिरिति सूत्रार्थः / व्याचष्टेतस्या इति / अनित्यताया अनित्यत्वप्रकारं जिज्ञासते- कथमिति / उत्तरमाह- यथेति / प्रकृतमाहएवमिति / स्पष्टार्थ सर्वम् // वस्तुतस्तु नास्तिकपूर्वपक्षाणामास्तिकैः प्रत्याख्यानं वास्तवं नोपजायते इत्यनुसंधेयम् // 27 // उक्तं सिद्धान्ती प्रत्याचष्टे- नित्यस्येति, नित्यस्य= नित्यत्वस्य प्रत्याख्यानं न संभवति- यथोपलब्धि= उपलब्ध्यनुसारेण व्यवस्थापनात= नित्यत्वानित्यत्वयोर्व्यवस्थायाः संभवात यथा यस्योत्पत्तिविनाशावुपलभ्येते तदनित्यं यथा घटादि यस्य नोपलभ्येते तन्नित्यं यथात्मादीति नित्यपदार्थस्य प्रत्याख्यानं न संभवति- प्रमाणसिद्धत्वादिति सूत्रार्थः / व्याचष्टे- अयमिति, अयं वादः= पूर्वोक्तो वादः, अत्र वादीति वक्तव्यमासीत् / स्ववक्तव्यमाह- नित्यस्येति / उक्ते हेतुं जिज्ञासते- कस्मादिति / हेतुमाह- यथेति / उक्तं व्याचष्टे- यस्येति, विपरीतम्= नित्यम् / प्रमाणत उपलभ्यते इत्यन्वयः।