________________ 334 प्रसन्नपदापरिभूषितम्- [3 अध्याये. २आह्निके तथाऽऽहारस्य // 66 // "उत्पत्तिनिमित्तत्वात् " इतिप्रकृतम्, भुक्तं पीतम् आहारस्तस्य पक्तिनिर्वृत्तं रसद्रव्यं मातृशरीरे चोपचीयते. बीजे गर्भाशयस्थे बीजसमानपाकं मात्रया चोपचयः बीजे यावद् व्यूहसमर्थः संचय इति. संचितं चार्बुदमांसपेशीकलककण्डरशिरःपाण्यादिना च व्यूहेन इन्द्रियाधिष्ठानभेदेन व्यूह्यते. व्यहे च गर्भनाडयाऽवतारितं रसद्रव्यमुपचीयते यावत प्रसवसमर्थमिति / न चायमन्नपानस्य स्थाल्यादिगतस्य कल्पते इति, एतस्मात् कारणात् कमेनिमित्तत्वं शरीरस्य विज्ञायते इति // 66 // गर्भवासेनाऽनुभवनीयम्= भोग्यं कर्मास्ति. पित्रोः= मातापित्रोरपि पुत्रलक्षणफलेनानुभवनीये= भोग्ये कर्मणी स्तः तानि हि कर्माणि मातुर्गर्भाश्रये भूतेभ्यः= शुक्रशोणितादिभ्यः शरीरोत्पत्तिप्रयोजकानि भवन्ति इति शरीरोत्पत्तेः कर्मसापेक्षत्वं सिद्धं तथा बीजानुविधानम्= मातापितृसादृश्यमपि शरीरोत्पत्त/जपूर्वकत्वे एव संभवतीति बीजानुविधानमुपपन्नमित्यर्थः / अत्र- " बीजानुविधानाच यजातीयौ तस्य पितरौ तज्जातीयः संभवतीति" इति वार्तिकम् / किं वा शरीरोत्पत्तेः कर्मसापेक्षत्वे एव बीजानुविधानम्= उक्तबीजपूर्वकत्वं संभवति अन्यथा पाषाणाद्युत्पत्तिवत् कर्मसापेक्षत्वं न स्यान्न चैवमस्तीति कर्मसापेक्षत्वेन बीजानुविधानमप्युपपन्नमित्यर्थः॥६५॥ शरीरोत्पत्तेः कारणान्तरमप्याह- तथेति, यथोक्तबीजस्य शरीरोत्पत्तिकारणत्वं तथा मातापितृकर्तृकस्याहारस्य= भोजनस्यापि शरीरोत्पत्तिकारणत्वमस्ति- तादृशभोजनं विनोक्तबीजस्यासंभवात्, साक्षादप्याहाररसेन गर्भाशये शरीरं वर्धते पाषाणाद्युत्पत्तौ तु नाऽऽहारस्य कारणत्वमिति न शरीरोत्पत्तौ पाषाणाद्युत्पत्तिदृष्टान्तः संभवति- वैषम्यादिति सूत्रार्थः / ब्याचष्टे- उत्पत्तीति, प्रकृतम् पूर्व सूत्रादनुवर्तनीयमित्यर्थः / आहारपदार्थमाह- भुक्तं पीतमिति, तस्य= आहारस्य, पक्तिनिवृत्तम्जाठराग्निकृतपाकेन संपन्नम् , उपचीयते= संचितं भवति, तत्र बीजे गर्भाशयस्थे सति तस्य बीजस्यपुरुषशुक्रस्य यावत्= यावत्कालपर्यन्तं व्यूहसमर्थः= शरीररूपेण परिणामसमर्थः संचयः= पुष्टिर्भवति तावत्पर्यन्तं अर्थात् शरीरसिद्धिपर्यन्तं बीजेपि बीजसमानपाकम्= बीजपाकानुकूलं किं वा बीजेन सह पाकयोग्यं मात्रया= किंचित् किंचित् तस्य रसद्रव्यस्य उपचयः= संचयो भवति, बीजसमानपाकमिति क्रियाविशेषणम् / अग्रिमप्रक्रियामाह- संचितमिति, बीजे संचितं च तद्रसद्रव्यं क्रमेणाऽर्बुदादिरूपेण व्यूहेन= पिण्डरूपेण इन्द्रियाधिष्टानभेदेन= चक्षुरादिगोलकादिविशेषरूपेण व्यूह्यते= परिणमते= पिण्डावस्थां प्राप्नोतीत्यन्वयः / गर्भाशयस्थितस्य बीजस्य क्रमेणाऽबुंदादिलक्षणा अवस्था भवन्ति, अबुर्दावस्था बुद्धदावस्था ततो मांसावस्था ततः पेशी= पिष्टसदृशावस्था ततोपि घनावस्था कलकावस्था ततः कण्डरावस्था= लम्बायमानपिण्डावस्था ततः शिरःपाण्याद्यङ्गानां प्राकट्यमित्यनुसंधेयम् / उक्तं च याज्ञवल्क्यस्मृतौ " प्रथमे मासि संक्लेदभूतो धातुर्विमूछितः / मास्यऽव॒दं द्वितीये तु तृतीयेऽनेन्द्रियैर्युतः // " इति / अग्रिमप्रक्रियामाह- व्यूहे इति, व्यूहे= पिण्डे गर्भाशयस्थे / यावत्प्रसवसमर्थम्= प्रसवपर्यन्तमित्यर्थः / पूर्वपक्षिमते बाधकमाह- न चेति, अन्नपानस्य स्थाल्यादिस्थितस्य अयम्= शरीररूपेण परिणामो न भवति तस्मात् शरीरस्य कर्मजन्यत्वं विज्ञायते इत्याह -एतस्मादिति, यदि कर्मनिरपेक्षेभ्योपि भूतेभ्यः शरीरोत्पत्तिः स्यात्तदा स्थाल्यादिगतेभ्योपि स्यात् न च भवतीति कर्मसापेक्षत्वं सिद्धम् , भूतानि च शरीरो. त्पादकानि अन्नादिरूपाण्येवेत्यनुसंधेयम् / वस्तुतस्तु नेदं बाधकं संतोषकरमिति 'यदि कर्मनिरपेक्षत्वं शरीरोत्पत्तेः स्यात्तदा संतानरहितत्वं कस्यापि न स्यात् / इतिवक्तव्यम् // 66 //