________________ 180 प्रसन्नपदापरिभूषितम्- [2 अध्याये. २आह्निके___ उच्चारणमस्य व्यञ्जकं तदभावात् मागुच्चारणादनुपलब्धिरिति / किमिदमुच्चारणं नामेति?, विवक्षाजनितेन प्रयत्नेन कोष्ठयस्य वायोः प्रेरितस्य कण्ठताल्वादिप्रतिघाताद्वर्णाभिव्यक्तिरिति / संयोगविशेषो वै प्रतिघातः प्रतिषिद्धं च संयोगस्य व्यञ्जकत्वं तस्मान्न व्यञ्जकाभावादग्रहणम् अपि त्वभावादेवेति. सोयमुच्चार्यमाणः श्रूयते श्रूयमाणश्चाऽभूत्वा भवति इत्यनुमीयते. अर्व चोचारणान्न श्रूयते स भूत्वा न भवति= अभावान्न श्रूयते इति / कथम् ?. "आवरणाद्यनुपलब्धेः" इत्युक्तं तस्मादुत्पत्तितिरोभावधर्मकः शब्द इति // 18 // एवं च सति तत्त्वं पांशुभिरिवाऽवाकिरनिदमाह ___ तदनुपलब्धेरनुपलम्भादावरणोपपत्तिः // 19 // यद्यनुपलम्भादावरणं नास्ति ?. आवरणानुपलब्धिरपि तद्दनुपलम्भान्नास्तीति. तस्या अभावादप्रतिषिद्धमावरणमिति / कथं पुनर्जानीते भवान् नावरणानुपलब्धिरुपलभ्यते ? इति / पूर्वपक्षी स्वमतमाह- उच्चारणमिति, अस्य शब्दस्य, तदभावात्= उच्चारणाभावात् , व्यञ्जकाभावे. ऽनुपलब्धिः स्पष्टैव, यथा प्रकाशाभावे रूपस्यानुपलब्धिः / सिद्धान्ती उच्चारणस्वरूपं जिज्ञासते-किमिदमिति / उत्तरमाह-विवक्षेति, वक्तुमिच्छा विवक्षा तज्जन्येन प्रयत्नेन प्रेरितस्य कोष्ठयरय= आन्तरस्य वायोः कण्ठादिभिः सह प्रतिघातो भवति तदेवोच्चारणं तस्मात् यथास्थानम्= वर्णानां व्यवस्थितेन कण्ठादिस्थानेन वायोः प्रतिघाताद् वर्णस्याभिव्यक्तिर्भवति न तूत्पत्तिरिति शब्दस्य नित्यत्वं प्राप्तमित्यर्थः / एतत् सिद्धान्ती प्रत्याचष्टे-संयोगेति, कण्ठादिस्थानेन वायोर्यः प्रतिघात उक्तः स संयोगविशेष एव संयोगस्य च शब्दव्यजकत्वं त्रयोदशसूत्रभाष्ये प्रतिषिद्धमेव तस्मात् शब्दस्य यदग्रहणम्= अनुपलब्धिः सा व्यञ्जकाभावप्रयुक्ता नास्ति किं तु शब्दाभावप्रयुक्तैवेति सिद्धं शब्दस्य विनाशित्वमित्यर्थः / उपसंहरतिसोऽयमिति, सोयं शब्द उच्चार्यमाणः= उच्चारणकाले श्रूयते न पूर्वमपीति श्रूयमाणोह्यऽभूत्वा= पूर्वमऽविद्यमान एव भवति= जायते= उत्पद्यते, तदनेन शब्दस्योत्पत्तिमत्त्वं प्रतिपादितं तस्मादुच्चारणात् पूर्वमऽभावादेव शब्दो न श्रूयते इत्युच्चारणेनोत्पद्यते शब्द इत्यनुमीयते इत्यन्वयः / विनाशानुमानमाह- ऊर्ध्वमिति, यथोच्चारणात्= प्राक् न श्रूयते तथा ऊर्ध्वम्= अनन्तरमपि न श्रूयते तस्मात् शब्दस्योच्चारणात् पूर्व प्रागभाव ऊर्ध्वं च प्रध्वंसः सिद्ध इति सः शब्दः उच्चारणेन भूत्वा= उत्पद्य तदनन्तरं नभवति= विनश्यति इति विनाशित्वमपि सिद्धम् , एतद् व्याचष्टे- अभावादिति, यतः शब्द उच्चारणात् पूर्वोत्तरकालयोन श्रूयते न चावरणमप्युपलभ्यतेऽतः स्वाऽभावादेव न श्रूयते इत्यनुमीयते इत्यन्वयः / 'अभावान श्रूयते' इत्युक्ते कारणं जिज्ञासते- कथमिति। उत्तरमाह- आवरणेति / आवरणाद्यभावेप्यनुपलभ्यमानस्याऽभावोऽवश्यम्भावीत्यर्थः / उपसंहरति- तस्मादिति, उत्पत्तितिरोभावधर्मकः= उत्पत्तिविनाशवान् शब्दो न नित्य इति सिद्धम् // 18 // अग्रिमसूत्रमवतारयति- एवं चेति, एवं च सति= संप्रति, तत्त्वम्= सिद्धं शब्दानित्यत्वम् / पांशुभिः धूलिप्रक्षेपेण / अग्रिमसूत्रद्वयेन जात्युत्तरं पूर्वपक्षी वदतीत्यर्थः, अत्र “जातिवादिनः सूत्रद्वयम् " इति तात्पर्यटीका / तदिति- या हि तत्= तस्य= शब्दावरणस्यानुपलब्धिरुक्ता सा नोपलभ्यते इति आवरणानुपलब्धेरनुपलम्भात् आवरणोपपत्तिः= शब्दावरणमुपपन्नं तथा चोचारणात् पूर्वोत्तरकालयोः सन्नपि शब्द आवरणेनावृतत्त्वान्नोपलभ्यते इति सिद्धं शब्दस्य नित्यत्वमिति सूत्रार्थः / यस्य पदार्थस्यानुपलब्धिर्न सिध्यति तस्य सत्त्वं सिध्यतीति शब्दावरणस्यापि अनुपलब्धेरसिद्धया सत्त्वं सिद्धमित्याशयः। व्याचष्टे- यदीति, आवरणम्= शब्दावरणम् / प्रतिबन्युत्तरमाह- आवरणेति, अनुपलभ्यमानाया आवरणानुपलब्धेरपि असत्त्वं सिद्धमावरणवदित्यर्थः, अन्यथा ह्यनुपलभ्यमानस्यावरणस्याप्यसत्त्वं न स्यादित्याशयः / पर्यवसितमाह- तस्या इति, तस्याः= आवरणानुपलब्धेरभावादावरणमप्रतिषिद्धम् सिद्धमित्य