________________ 3.5. ]. हेतोस्त्रीणि रूपाणि / पश्चात्कृतेनैव'कारेणासाधारणो धर्मो निरस्तः। यदि हि 'अनुमेय एव सत्त्वम्' इति कुर्यात् श्रावणत्वमेव हेतुः स्यात् / निश्चितग्रहणेन सन्दिग्धासिद्धः सर्वो निरस्तः। सपक्षो वक्ष्यमाणलक्षणः। तस्मिन्नेव सत्त्वं निश्चितमिति द्वितीयं रूपम् / इहापि अथैवंविधोऽपि पक्षव्यापक उच्यते तहि स्वापेन किमपराद्धं येनासावेवैको न युक्त इति। अत्र केचिदेवं प्रतिविदधति / जिज्ञासितधर्मविशेषवत्त्वेन हि रूपेण धर्मी पक्ष उच्यते / यश्चासौ पर्वतादिस्तत्र न वह्निजिज्ञासितः / किन्तर्हि ? यत्र तत्रोद्देशे। तत्रैकदेशस्थधूमदर्शनेऽप्येकदेशवह्निजिज्ञासितो ज्ञायत इति किं सर्वपर्वतव्यापिना धूमेन कार्यम् ? यदि पुनः सर्वत्रव वह्निमत्त्वं जिज्ञासितं स्यात्, स्यादेवायं पक्षकदेशासिद्धः / न चैतदेवम् / ततः कथमस्य तथात्वम् ? अत्र पुनः सर्वेषामेव तरूणां चैतन्यं जिज्ञासितमिति सकलपादपव्यापिनैव स्वापेन प्रयोजनम् / यथा वेदस्य सर्वस्यैव पौरुषेयत्वे साध्ये सकलाम्नायव्यापकेनैव वाक्यत्वेन प्रयोजनम् / न चायं सर्वान् व्याप्नोति / ततः पक्षकदेशासिद्ध उच्यते / एके तु-लोकाध्यवसायसिद्धं महीधरादेरेकत्वमवलम्ब्यायं व्यवहारः, न च सवषां तरूणां तथैकत्वं लोकोऽध्यवस्यति, येन स्वापस्यापि तथा सिद्धिर्भवति, ततः किमवा नामेति प्रतिपन्नाः। __अथाभिधीयते-यदि कश्चित्तिन्तिडिकाप्रभृतीनेव पादपान् पक्षयित्वा स्वापं हेतूकरोति, तदाऽयं न पक्षकदेशासिद्ध इति किं न साधयेच्चैतन्यमिति ? .. असदेतत्-विकल्पानुपपत्तेः। यदि सर्वजनप्रसिद्ध इन्द्रियव्यापारविरोध्यवस्थाविशेषः . स्वापो निद्रापरनामा हेतुरभिप्रेतस्तदाऽयं तेष्वपि तरुष्वसिद्ध इति कथं चैतन्यमनुमापयेत् ? अथ येन केनचिदुपाधिना स्वापशब्दमात्रवाच्योऽर्थों हेतुस्तथाविधस्य स्वापस्य चैतन्येन व्याप्त्यसिद्धेः सन्दिग्धविपक्षव्यावत्तिकतयाऽनकान्तिकः / “षष्ठ्यतसर्थप्रत्ययेन"पाणिनि 2.3.30] इत्यनेन पश्चाच्छब्दयोगे सत्त्ववचनात्षष्ठी / असाधारणः सपक्षासपक्षसाधारणो यो न भवति / पक्षस्यैव यो धर्म इति यावत् / निरस्तो हेतुत्वेन प्रतिक्षिप्तः / पूर्वावधारणे तु नायं निराकृतः स्यादिति दर्शयति यदीति। हिर्यस्मात् / अयमस्याशयः यद्यनुमेय एव सत्त्वं यस्येति लक्षणं स्यात्तदा सपक्ष एव सत्त्वमिति वचनमतिरिच्यमानं लक्षणान्तरं भविष्यति। व्याघात एव वा भविष्यतीति। निश्चितग्रहणस्येहापेक्षितस्य व्यवच्छेद्यं दर्शयति-निश्चितेति / सन्दिग्धश्चासावस्य हेतुत्वेन विशेषणत्वेन चासिद्धोऽनिश्चितश्चेति विग्रहः। सन्दिग्धविशेषणासिद्धः, सन्दिग्धविशेष्यासिद्धश्च सन्दिग्धासिद्ध एवान्त[39b]र्भवतीति, सोऽप्यनेनैव निरस्तः / यथाऽनयोर्भेदो यथा - चान्तर्भावस्तथापरस्तात्प्रदर्शयिष्यामः / इहाश्रितत्वादार्थेन न्यायेन हेतुसत्त्वस्य विशेषणरूपत्वाद् अनेन सहोदिति (त) एवकारो धर्मायोगस्य व्यवच्छेदको द्रष्टव्यः / ' अग्रे कृतेन-टि० . असर्वज्ञः कश्चित् वक्तृत्वात्-टि० 2 इति ब्रूयात्-B D