________________ 236 ] भीशान्तिनाथमहाकाव्ये - असो मम मित्रम् , स्मरसायकैः कामेषुभिः कृत्वा, गमितशक्तिः गतसंझा, त्वदलम्भनतः तवाप्राप्तेः, निधनतां मरणं गमी प्राप्ता, मरिष्यति त्वद्विनेत्यर्थः / सुहृद् तस्य मित्रमहम्, एतेन तत्प्राणरक्षणोपायो मयाऽवश्यं कार्य इति सूचितम् / भवदर्थ तव प्राप्त्यर्थमिहागमम् , तादृशं पूर्वोक्तप्रकारम् कपटम् , आरचयं अहं कृतवान् किल // 154 // જે કામબાણોથી ક્ષીણ શક્તિવાળા થઈ તમે નહિ મળવાથી મૃત્યુ પામશે. તેથી તેને મિત્ર છે તમારા માટે અહીં આવ્યો છું ને આવું કપટ કર્યું છે. [154 मम मृतिनियता त्वदलामतः, स च मरिष्यति तत्र शुभाशये / तव कलङ्कयुगं भविता गिराऽयमपि चेतसि तन्वि ! विचारय ! / / 155 // शुभाशये शुभभावसम्पन्ने, शुभभावश्च न परविपत्तिमिच्छतीति साकूतमिदं सम्बोधनम् / त्वदलामतः तव प्राप्त्यभावे, मम मृतिर्नियताऽवश्यम्भाविनी, यदि त्वां न प्राप्नुयां तयहमवश्यं नियेम इत्यर्थः, तत्र कुसुमपुरे, स मम मित्रं च मरिष्यति, ननु तेन मम का हानिरिति चेत्तत्राहतव गिरा शब्दतः, लोकवाक्यात् , कलङ्कयुगमपवादद्वयं भविता भविष्यति, अनिष्टस्य हि सम्बन्धो मरणादतिरिच्यते इति भावः / तन्वि ! चेतसि एतदपि, विचारय / त्वया मम वचनमवश्यं स्वीकचेव्यम् एवञ्च तव मम वचनमवश्यं कर्तव्यमित्यनुनयोक्तिः // 155 // અહિ તમારા નહિ મલવાથી મારી મૃત્યુ નક્કી છે ને હું શુભ આશયવાળી ત્યાં તે પણ મરશે. તેથી તમને બે કલંક લાગશે. હે માંગી માટે મારા વચનથી આ બધુ પણ મનમાં વિચારો. 155 नृपसुताऽपि विचिन्त्य जगाद तं, मयि दृषद्वपुपि स्थिरसौहृदः / अयि ! सुहृद् तव मित्रयुरीदृशस्त्वमपि तद्वयमाव्यमिदं ध्रुवम् // 156 / अयोति कोमलामन्त्रणे। तव सुहृत् , दृषत्-प्रस्तरः “पाषाणः प्रस्तरः दृषद् इति हैमः / तन्मय. मित्यर्थः वपुर्यस्याः सा तस्यां मयि मद्विविषये, मम प्रतिमां दृष्टा मयीत्यर्थः / स्थिरं सौहृदं प्रेम यस्य स तादृशः सातिशयप्रीतिमान् , त्वमपि, ईदृशः सम्प्रत्यनुभूतप्रकारः, मित्रयुः प्राणव्ययेनाऽपि मित्रवत्सलः "मित्रयुमित्रवत्सलः" इति हैमः / तत्तस्मादिदं प्रस्तुतं द्वयं मित्रयुगम् , ध्रुवं निश्चयेन, आव्यम् रक्षणीयम् , अन्यथा द्वयोरेव शोचनीयत्वं स्यात् , एवञ्च त्वद्वचनमहं करिष्यामिति स्वीकारोक्तिः सूचिता, स्त्रियो हि प्रकारान्तरेणैव स्वाभिप्रायं सूचयन्तीति भावः // 156 / / રાજપુત્રી પણ વિચારીને તેને કીધું કે અહીં મારા પત્થરના શરીરમાં પણ તમારા મિત્ર આટલે સ્થિર પ્રેમવાળે છે ને તમે આવા મિત્ર પકારી છે માટે આ બન્નેનું નકકી સાચવવું જોઈએ. 15 स मित्रमुत् , विसारिणं वर्धमानं तस्या मणिमञ्जर्या अनुरागमवेक्ष्य स्वीकारोक्त्याऽनुमाय वदति स्म' तो प्रतीतिशेषः / किमित्याहतदनुरागमवेक्ष्य विसारिणं, स वदति स्म यदा जनकस्तव / मम समर्पयते भवतीं तदा, सुतनु ! फेस्क्रियतां सुतरां त्वया // 157 //