SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ 132] विषयतावादः कानुमितित्वस्यैव पर्वतो वह्निमानित्येतादृशसिद्धयभावजन्यतावच्छेदकत्वस्वीकारात् / वनिमान् पर्वतो घटवानित्याद्याकारकानुमिति विशेष्यताया वहनित्वान्यघटत्वावच्छिन्नप्रकारतानिरूपिवत्वेन व्यभिचारानवकाशात् / न चैवमपि 'वनिमत्पर्वतवान् देश' इत्याद्याकारकानुमितौ व्यभिचारोदुर्वारस्तादृशानुमितिविशेष्यताता वह्नित्वान्यधर्म नवच्छिन्नप्रकारतानिरूपितत्वादिति वाच्यं, तादृशमुख्यविशेष्यताया एव निवेशनीयस्वात् / चैतदपेक्षया पर्वतत्वावच्छिन्नोद्देश्यतानिरूपित वह्नित्वावच्छिन्नविधेयतायास्तादृशसिय भावजन्यतावच्छेदकत्वे लाघवातत्सिद्धिरिति वाच्यं लाघवेनातिरिक्तविषयतासिद्धेः प्रागेव निरस्तत्वादिति चेत् , मैवम् / अतिरिक्तविधेयतानभ्युपगमे वह्नि नानुमिनोमीति प्रतीतेरनुमितिनिष्ठो वह्निप्रकार (क) त्वाभावः आत्मनिष्ठी वह्निप्रकारकानुमि, तित्वावच्छिन्नाभावो वा विषयो वाच्यस्तथा च 'वह्निमान् पर्वतो घटवान्' 'वहूनिमत् पर्वतवान् देश' इत्याद्यनुमितिकाले तथाप्रतीत्यनुदयप्रसङ्गस्तादृशानुमिती वनिप्रकार[क]त्वाभावस्यात्मनि च तथाविधानुमितित्वावच्छिन्नाभावस्यासत्त्वात्, मम तु वह्निविधेयकत्वाभावस्यानुमितो वहनिविधेयकानुमितित्वावच्छिन्नाभावस्यात्मनि वा तादृशप्रतीतिविषयत्वोपगमान्नानुपपत्तिः / न च तदानीं भ्रमरूपैव तादृशप्रतीतिरुत्पद्यते तत्र विषयासत्वमकिञ्चित्करमिति वाच्यं, यथाकथञ्चित् प्रमात्वस्य शक्योपपादनत्वे प्रतीतिभ्रमत्वकल्पनाया अन्याय्यत्वात् / न च वनिव्याप्यवत्ताज्ञानजन्यानुमितित्वावच्छिन्नाभावत्यैव तद्विषयत्वोपगमान्नानुपपत्तिस्तादृशानुमितेस्तथात्वादिति वाच्यं, तथा सत्यपि वनिव्याप्यधूमवान् पर्वतो घटव्याप्यवानिति परामर्शजन्यानुमित्यनन्तरं तथा प्रतीत्यनुपपत्तितादवस्थ्यात् / अनुमिति परामर्शयोः कार्यकारणभावाग्रहदशायामपि तादृशप्रत्ययस्य सर्वानुभवसिद्धत्वात्तादृशाभावस्य तद्विषयकत्वासम्भवाच्च / अथैवमपि विधेयत्वमेवातिरिक्तमास्ताम् उद्देश्यत्वं तु विशेष्यत्वरूपमेवास्तु / किं च विधेय तावद्विधेयतात्वमप्यवश्यमतिरिक्तं स्वीकरणीयम् अन्यथा विधेयतानां तत्तद्विधेयादिभेदेन भिन्नतया ऽननुगमात्तद्घटितोपदर्शितधर्मावच्छिन्नप्रतियोगिताकस्याभावस्यैकस्यासम्भवात् तावदभावकूटस्य दुर्जेयतया तादृशप्रतीत्यनुपपत्तिः तादवस्थ्यात् तथा चातिरिक्तविधेयत्वादिकल्पनमनर्थकं पर्वतो वह्निमानित्याद्याकारकप्रत्यक्षसाधारणवन्यादिप्रकारतायां विधेयतात्वस्वीकारेणैवोपपत्तेः / न च तादृशप्रत्यक्षादिसाधारणवहून्यादिप्रकारतातो वह्निमान् पर्वतो घटवानित्यादिज्ञानीय प्रकारताया भेदे मानाभावात्तत्र विधेयतात्वस्वीकारे तथाविधानुमितिदशायां वह्निना अनुमिनोमीत्यनुव्यवसायानुपपत्तितादवस्थ्यमिति वाच्यं, वह्निमान् पर्वतो घटवानित्यादिज्ञानीयवह्निप्रकारताया घटादिप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यतानिरूपिततया पर्वतो वह्निमानि त्येतादृशज्ञानीयवहन्यादिप्रकारतायाश्चातथात्वेन तयोर्भेदस्यावश्यकत्वादिति चेत् , मैवम् / प्रकारत्वाद्यतिरिक्तविधेयत्वादीनामनभ्युपगमे ‘पर्वते वह्नि' इत्यादिवाक्यजन्यशाब्दबोधस्य वहन्यादिविधेयकत्नापर्वतो
SR No.004308
Book TitleNavgranthi
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherYashobharti Jain Prakashan Samiti
Publication Year1981
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy