________________ 78] आत्मख्यातिः भामण्डलावच्छिन्नब्रह्मचैतन्याभिन्ने साक्षिण्यध्यस्तमिदंवृत्तेः प्राग्रजतस्येव प्रभामण्डलवृत्तेः प्राग्नभसोऽसत्त्वाभावात् / तच्च नभो ब्रह्मचैतन्य एवाध्यस्तमिति न केवलसाक्षिवेद्यता, नापि ज्ञानविषयतयाऽज्ञानविषयतया वा नभसः साक्षिण्यध्यासात्साक्षिवेद्यता तादृशसांक्षिवेद्यत्वस्य शुक्त्यादावपि सत्त्वात् , तस्मान्न केवलसाक्षिवेद्यं नमः / नापि चाक्षुषम् , अपसिद्धान्तात् , चक्षु:प्रसारणस्याकाशानुगतसत्तास्फुरणेऽन्यथासिद्धान्थकैरभिधानात् , अत्र सत्ताशब्देन सदेव सत्तेति देवतादिवत् स्वार्थिकतम् प्रत्ययेन प्रभामण्डलमुच्यते, तस्मान्नीलं नभ इत्ययं भ्रमो दुर्घटो न ह्ययं परोक्षोऽपरोक्षानुभवविरोधात् , नाप्यपरोक्ष उक्तविधया नभसः साक्ष्यपरोक्षत्वस्य चाक्षुषवस्य चाभावे परोक्षत्वात् / परोक्षे चाधिष्ठाने नैल्यापारोक्ष्यानुपपत्तेः / स्वाभिन्नत्वेन ह्यपरोक्षत्वं, न च नैल्ये तद्वक्तुं शक्यत इति चेत् , अत्र वदन्ति– ___ यथा सिद्धान्ते केवलसाक्षिगम्यस्याप्यज्ञानरजतादेः प्रामाणिकभावत्वमिथ्यात्वादिधर्मपुरस्काश प्रमाणगम्यत्वं एवं प्रामाणिकस्यापि नभसः केवलसाक्षिवेद्यनैल्यादिधर्मपुरस्कारेण केवलसाक्षिकेशन, चक्षुपा प्रभामण्डलज्ञाने जाते तदुत्पादितनभोनैल्यावगाह्ये काविद्यावृत्या प्रतिफलितेन साक्षिणा नैल्यस्य तदाश्रयस्य नभसश्च विषयीकरणात् , नभसि समुत्पन्न नैल्यं विनोक्तवृत्त्या तु सक्षिणा विषयोकर्तुमशक्यं साक्षिण इदमंशेनेव नभसाऽनैन्द्रियकेणानवच्छेदात् / न चैवमपि नभोनेल्ययोः साक्षात्साक्षितम्बन्धाभावादविद्यावृत्ति वेषयतयैव साक्षिणा विषयीकरणे भ्रमानुमितौ वढेरिवापरीक्षत्वानुपपत्तिः, ईश्वरस्य मायावृत्तिविषयानामतीतानागतकल्पानामिव लिङ्गाद्यप्रतिसन्धानेन बानमानत्वेन तयोः साक्ष्यपरोक्षत्वात् , अतएवाज्ञानविषयतया घटवह्नयादेः साक्षिसम्बन्धेऽपरोक्षरतव्यवहारो, भ्रमप्रमानुमित्योस्त्वतथात्वादेवाविद्यान्तःकरणवृत्तिविषयतया वह्नः साक्षिसम्बन्धेऽमि लामराक्षत्वव्यवहारः / तस्मान्नभसो नैल्यं नभोनिष्ठनैल्याभावाज्ञानजनितं नभोवच्छिन्नचैतन्यनिष्ठमपि स्वाकाराविद्यावृत्तिविषयतया साक्षिणि स्वाध्यस्तं लिंगाद्यप्रतिसन्धानादपरोक्षं व्यवहियत इति नीलं नभ इति भ्रमोऽप्यपरोक्ष एव / न चाधिष्ठानज्ञानाभावे कथमसौ भ्रमः न चाधिष्ठानज्ञानमध्यविद्यावृत्तिरूपमेव केवलस्य नभसः प्रामाणिकस्य घटादेरिव तदसंभवादिति वाच्यम् , अनुमितिरूपस्यैवाधिष्ठानज्ञानस्य स्वोकारात् , अधिष्ठानापरोक्षत्वं च प्राग्भ्रमाद् यद्यपि नास्ति तथाप्युक्तविधया नोलं नभ इति भ्रमस्यापरोक्षत्वम् , प्रागपरोक्ष एवाधिष्ठानेऽपरोक्षभ्रम इति नियमे मानाभावात् , तस्मादाविद्यकनैल्यपुरस्कारेण नभोऽविद्यावृत्तिविषयतया केवलसाक्षिवेद्यम् / यद्वा साक्षादज्ञानारब्धत्वेन तमोवदविद्यावृत्या साक्षिवेद्यम् , एवं दुःखाभावादयोऽप्यविद्यावृत्यैव केवलसाक्षिवेद्याः, तेहि स्वाध्यस्ता अपि न सुखादिवत्साक्षिगम्या यावत्सत्वं सुखादिबहानामा गत् , सोऽपि सर्वदा प्रतियोगिज्ञानाभावात् , न च साक्षिरूपे दुःखाद्यभावज्ञाने प्रतियोगिज्ञानं न कारण, लाघवादभावज्ञानत्वावच्छेदेनैव तद्धेतुत्वावधारणात् अत एव सुप्तोत्थितस्य