SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ विमलप्रभायां [ अभिषेकॐकारेत्यादिना। इह सर्वत्र तन्त्रराजेषु रजोमण्डले ॐकारः कायवज्रः, तेन मण्डलं[ 196 a] निष्पादितम् ॐकारं' ज्ञानजातमित्युच्यते / तस्माद् ॐकारजाते मण्डले जिनवरकमले चतुर्विंशतिकमलेषु चन्द्रसूर्यासनानि वर्षभेदेन, . द्वादशपूर्णिमाभेदेन द्वादशचन्द्रासनानि, द्वादशामावास्याभेदेन द्वादशसूर्यासनानि प्रज्ञोपायविशुद्धया। तेषु चन्द्रसूर्यासनेषूध्वं कर्णिकोपरि स्थितेषु, आधैरित्याकाराद्यैः स्वरैः, काचैरिति ककाराद्यैव्य॑ञ्जनैः, सशून्यैरिति बिन्दुविसर्गसहितैः, तैः सार्धं त्रिभुवनजननो शून्यता सर्वकारा नादरूपिणी बिन्दुमूनि मातृका त्रैधातुकजननी, अनाहतध्वनिरिति प्रज्ञापारमिता परमार्थसत्याश्रयेण स्थापनीया सर्वमन्त्राणां मूनि आकारादिककारादीनां सशून्यानाम् / तेन तैः सार्धं सा उच्यते। एवं भगवानपि महासुखरूपी तत्रान्तर्गतः। इदानीं पञ्चशून्येषु प्रत्याहारधर्मिणां कायादिमन्त्राणाम् उत्पाद उच्यते-शून्य इत्यादिना / शून्ये प्रथमपटलोक्तमन्त्र स्थाने वामाङ्गे अनुस्वार इति / पूर्वापरे अकारद्वये दक्षिणाङ्गे विसर्गे बिन्दुद्वये। स्वररहितपरें इति / अनाहते हकारे अस्वरे। कायवाश्चित्तज्ञानवज्राणि संभूतानि / तेषु प्रथमं तावत् कायोत्पादः कथ्यते। इह प्रथममनुस्वारः, ततोऽकारः, उभयोर्मध्ये विसर्गः, अनुस्वारान्ते दीर्घ आकारः। एवं दीर्घस्वरे परभूते पूर्वोऽनुस्वारो मत्वमापद्यते। १°मकारे च परेऽकारात् परो विसर्गोऽकारः स्यात्, पश्चादकारेण गुणे सति ओकारः। 10 ततो निरुक्तिलक्षणे वर्णनाशोऽस्तीति मकारं विश्लिष्य "अन्त आकारो लोप्यः / एवं त्रिगुणात्मक ॐकारः कायवज्रः। अ उम् इति कथ्यते स्वपरसिद्धान्ते। 20 इदानीं वाग्वज उच्यते। इह पूर्वापरमकारद्वयं दीर्घाकृत्य विसर्गोऽन्ते'२ देयः / तेन आ:कारस्त्रिगुणात्मको भवति / अ आ इति कथ्यते / इदानीं चित्तवज्र उच्यते / इ[196b]ह "पूर्वहकारोऽस्वरः, ततो ह्रस्वोऽकारः, ततो विसर्गः, ततो बिन्दुः, ततो दीर्घ ''आकारः। एवं पूर्ववदुकारो विसर्गस्य आद्यन्ताकारयोर्लोपः। ततो हुंकारस्त्रिगुणात्मकः / "ह, उ म इति कथ्यते। एवं कायवाक्चित्तमन्त्र"संभूतं" मन्त्राणां योनिर्जनकमित्यर्थः। 1. च. कार / 2-3. भो. 'द्वादश' नास्ति / 4. क. ख. तन्त्रा०। 5. क. ख छ. ०पादमुच्यते / 6. भो. sNags kyi ( मन्त्रस्य)। 7. च. आकार / 8. भो. mChog (परम् ) / 9. ग. तेऽकारे, च. ते उकारे / 10. भो. Ma Yig Pha Rol Tu Byun Bas Kyan (मकारपरस्यापि)। 11. भो. 'अन्ते' नास्ति / / / 12. ग. विसर्गान्ते / 13. ख, ग, आः। 14. ग. पूर्वे / 15. भो. आः। 16. क.ख. ग. च. हूंकार / 17. ग. भो. ह उम। 18. च. मन्त्रं / 19. छ. भूतः /
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy