SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ विमलप्रभायां [ अभिषेकइदानीं शिष्यरक्षाविधिरुच्यते- . कृत्वा शिष्यस्य रक्षां शिरसि हृदि तथोष्णीषनाभौ च कण्ठे श्रीगुह्याब्जे जिनाद्यैरुभयकुलगतैः कायवाञ्चित्तवज्रः / एवं लेपा(खा)दिकानां प्रकटितनियतैः श्रीस्वरैः पुस्तकानां सत्त्वानां मोक्षहेतोरमुकमपि विभो मण्डलं लेखयामि // 31 // इह प्रथम शिष्यावे रक्षां कृत्वा पश्चात् संग्रहेच्छिष्यादिकम् / अत्र जिनाये'देवतीभिरुभयकुलगतै रक्षां शिरसि ऊकारम्, हृदये ईकारम्, उष्णीषे आकारम्, नाभौ लकारम्, कण्ठे ऋकारम्, गुह्ये आ:कारमिति / उभयकूलगतैः कायवाक्चित्तभिन्नैरिति / एवं लेपा(खा)दिकानां प्रकटितनियतैः। पञ्चस्वरैः श्रीस्वरैरिति। अइऋउलू इति / 'पुस्तकानां रक्षां कृत्वा, ततो बद्धानध्येषयेत् सत्त्वानां मोक्षहेतोरमकमपि कालचक्रभगवतो मण्डलं लेखयामि / तस्माद् बुद्धबोधिसत्त्वाधिष्ठानं "शिष्यादीनां कुर्वन्त्वित्यध्येषणानियमो रक्षानियमः // 31 // [177b] 10 इदानीं 'संक्षेपत उच्यतेशुद्धे स्थाने सुपूर्णे सुसमविरचिते कूर्मपृष्ठोन्नते च / एकादौ हस्तमाने वसुनृपयुगसाहस्रमेव प्रमाणे / सूत्रं वज्रं रजो वै सुरयमवरुणे चोत्तरे वज्रघण्टां दत्त्वा लब्धे निमित्त प्रथमपरदिनं मण्डलं सूत्रणीयम् // 32 // येन वक्ष्यमाणे विस्तरेण वक्तव्यं सूत्राद्यधिवासनादिकमिति / शुद्धे स्थाने सुपूर्णे सुसमविरचिते चतुरस्रे किञ्चित्कूर्मपृष्ठोन्नते च / एकादौ हस्तमाने युगवसुनुप इति / चतुर्हस्तेऽष्टहस्ते षोडशहस्ते, एवं सहस्रहस्तं यावत् प्रमाणे स्थाने पूर्णे / तत्र सूत्रं सुरे, वज्रं यमे, रजो भाण्डानि वरुणे, उत्तरे वज्रघण्टाम्, मध्ये विजयकलशं वत्त्वा ततो वक्ष्यमाणक्रमेण सुप्तो यदाचार्यो निमित्तं लभते शिष्यो वा, तदा लब्धे निमित्त प्रथमं पूर्वदिशम्, अपरं पश्चिमदिशं मण्डलं सूत्रणीयं गुरुशिष्याभ्यामिति नियमः // 32 // 1. च. देवीभिः / 2. भो. sKu gZags Sogs Dai gLegs Bam ( देहादिपुस्तकानां) / 3. च. श्रीस्वरैः पञ्चस्वरैरिति, भो. पुस्तकानां / 4. भो. पञ्चस्वरैः / 5. ग. च. शिष्याणां / 6. ग. संक्षेप / 7. च. माणेन / 8. च. 'इति' नास्ति /
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy