SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ विमलप्रभायां [अभिषेक ___ इदानीं यन्त्रप्रतिष्ठापनविधिरुच्यते-इह शान्तिपुष्टयो यन्त्रलिखितं पत्रादिक श्वेतसूत्रेण वेष्टयेत्, यावत् पत्रं न दृश्यते। एवं कर्मविभागेन कृष्णसूत्रेण रक्तसूत्रेण पोतसूत्रेण वेष्टयेत् / / 21 // मृन्मन्दे श्रीकपाले त्रिमधुनि मधिरे सिक्थवेष्टेष्टमध्ये सार्द्रस्थाने पवित्रे चितिभुवनतले चाग्नितापे धरण्याम् / यन्त्रस्यारोपणं स्यादशुभशुभवशान्मन्त्रिणा वेदितव्यं चन्द्रभे प्रेत उष्ट्रे मृगतुरगपशौ कूर्मदेहे क्रमेण // 22 // (171b) 10 ततः शान्तिपुष्टयोः शरावसंपुटे स्थापयेत् त्रिमधुनि मधुघृतदुग्धसंमिश्रे, मारणोच्चाटने कपाले रुधिरपूर्णे स्थापयेत्, अग्नितापे खर्परसंपुटे सिक्थके वेष्टयित्वा वश्याकृष्टौ, स्तम्भने मोहने हरितालोदकपूर्णे इष्टकमध्ये स्थापयेत् / 'सास्थाने पवित्रे 'शान्तिपुष्टयोः स्थापयेद् मण्डलोपरि, मारणोच्चाटने मृतदग्धखानिकातले निधापयेत्, वश्याकर्षणे "चुल्लीतले, स्तम्भने, मोहने शुष्कभूम्यां निधापयेदिति मन्त्रिणाऽशुभशुभकर्मणि फलं वेदितव्यमिति नियमः। 15 इदानी लिखितस्य यन्त्रस्य चक्रबाटे नियम उच्यते-इह शान्तौ चक्र बाह्ये चन्द्रमण्डलेन वेष्टयेत्, उद्धृत्य रेखया पुष्टौ 'हस्तिना वेष्टयेत्, हस्तिदेहे यथा चक्र भवति, मारणे प्रेतदेहे, उच्चाटने उष्ट्रदेहे, वश्ये मृगदेहे, आकृष्टौ तुरगदेहे, मोहने छागलदेहे मेषदेहे वा, स्तम्भने कर्मदेहे यथा यन्त्रचक्रं भवति तथा बाह्य रूपं कर्तव्यम् / ततः पूर्वोक्तसूत्रेण वेष्टयेदिति / एवं विद्यायामपि नियमः / शान्ति पुष्टयोः रौप्यनलिका विद्याया मध्ये स्थाप्या, मारणे मानुषास्थिनलिका, उच्चाटने काकास्थिनलिका, वश्ये सुवर्णनलिका, आकृष्टौ ताम्रनलिका, मोहने लोहनलिका, स्तम्भने रीतिकानलिका इति नियमः। 20 ___इह येनैवोच्चाटनं तेनैव विधिना विद्वेषकार्य कर्तव्यम्, येनैव स्तम्भनं तेनैव कीलनं कर्तव्यम्, किन्तु कीलने शत्रूद्वर्तनेन पञ्चामृतसहितेन प्रतिकृति कृत्वा मदनकण्टकैः षट्चक्रेषु कीलयेद् हस्तपादसन्धिषु / शेषः स्तम्भादिवत् / येनैवाकृष्टिस्तेनैव ज्वरोत्पादनम्, किन्तु राजिकालवणैः पुत्तलक लेपयित्वा अग्निना संतापयेत् / येनैव शान्तिकं तेनैव 1. क. ख. च. छ. मन्त्र / 2. क. ख. ग. च. छ. यन्त्रा। 3. च. सिक्थे, ग. सिक्थकेन / 4. च. इष्ट / 5. क. सार्धस्थाने / 6. छ. क्षिति / 7. क. कुल्लीतले, ख. छ. बुल्लीतले / 8. च. हस्तिनो / 9. क. ख. ग. पुष्टौ /
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy