SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ पटले, 2-3 श्लो.] वज्राचार्यादिसर्वकर्मप्रसरसाधनालक्षणमहोद्देशः वज्रयाना धिरूढ इति / इह वज्रयानं सम्यक्संबुद्धयानम्, तीथिकश्रावकप्रत्येकबुद्धयानानामभेद्यत्वात् / वज्र मोक्षो यायतेऽनेनेति वज्रयानम्, तस्मिन्नधिरूढो वज्रयानाधिरूढ इति / तत्त्वध्यायी। इह तत्त्वं द्विधा-लौकिकसिद्धिसाधकं सम्यक्संबुद्धत्वसाधक मिति वक्ष्यमाणे वक्तव्यं परमाक्षरज्ञानसिद्धौ पञ्चमे 'ज्ञानपटले। तदेव तत्त्वं ध्यातुं शीलमस्येत्यर्थः। अलुब्ध इति सर्वपुत्रकलत्रादिस्वशरीरनिरपेक्ष इति / व्यपगतकलुष इति / रागद्वेषमोहमानेामात्सर्यसमूहः कलुषम्, तदेव विविधप्रकारेणापगतं यस्य स व्यपगतकलुष इति / क्षान्तिशील इति / क्षान्तौ फलनिरपेक्षा स्वाभाविकी प्रवृत्तिरस्य। अध्ववर्ती', अध्वा' सम्यक्सम्बुद्धमार्गः, तत्र 'वर्तत इति / असौ गुरुराराधितः सन् शिष्याणां मार्गदाता नरकभयहरो भवति / तत्वतो ब्रह्मचारी यः परमाक्षरसुखप्राप्तो माराणां स्कन्धक्लेशमृत्युदेवपुत्रमाराणां चतुर्णा वज्रदण्ड इव वज्रदण्डः। स च धरणितले वज्रसत्त्वः प्रसिद्धो निर्मितकायेनेति वज्राचार्यसेवानियमः॥२॥ 10 इदानीं दुष्टाचार्यदोषपरीक्षार्थमिह तृतीयवृत्तेनैवाह मानीत्यादिनामानी क्रोधाभिभूतः समयविरहितो द्रव्यलुब्धोऽश्रुतश्च शिष्याणां वञ्चनार्थी परमसुखपदे नष्टचित्तो न सिक्तः / भोगासक्तः प्रमत्तः सकटुकवचनः कामुकरचेन्द्रियार्थ शिष्यैः सम्बोधिहेतोनरकमिव बुधैर्वर्जनीयः स एव // 3 // इह मन्त्रनये मानादिदोषसहितो गुरुर्यः स गुरुः शिष्यैर्वजनीयः, कृतोऽपि गुरुः सम्यक्सम्बोधिहेतोर्नरकमिव बुधैः पण्डितैरिति / मानोऽस्यास्तीति मानी। मानोऽप्यनेकधा-पण्डिताभिमानः, द्रव्यैश्वर्याभिमानः, दशतत्त्वपरिज्ञानमार्गरूपाद्यभिमानः, स यस्यास्ति [163a ] स वर्जनीयः / अधोऽधः सत्त्वान् पश्यन्निति मानी, उत्तमोत्तमसत्त्वान् पश्यन् मानरहितो भवति सम्यक्मार्गवेत्तेति, तेन मानी करुणारहितो वर्जनीयः, तथा क्रोधेनाभिभूतः। समयविरहित इति लोकजुगुप्सितैर्गुह्य समयैः प्रकटेना"चरितैः समयविरहितो भवति, सोऽपि वर्जनीयः। द्रव्यलुब्धोऽपि सांघिकस्तौपिकादिगुरुद्रव्योपभोक्ता द्रव्यलुब्धः, तथा संसारभोगार्थ द्रव्यसञ्चयकारक इति। अश्रुतश्च इति मूर्खः सन्मार्गोपदेशरहित इति / तथा सच्छिष्याणां वञ्चनार्थी' मिथ्यावादीति वर्जनीयः। परमसुखपदे नष्टचित्तो न सिक्त इति / अभिषेकं विना तन्त्रदेशक इति वर्जनीयः। भोगासक्तो बाह्यसांसारिकभोगेषु आ समन्तात् प्रकारेण संसक्त इति / प्रमत्तो मद्य 20 .. 1. क. ख़ छ. भिरूढः / 2-3. क. ख. छ. साधनम् / 4. ग. 'ज्ञान' नास्ति / 5. भो. Ses Pa ( इति ) / 6. क. ख. छ. अध्व / 7. ग. वर्तनशील / 8. क. ख. अबोधः। 9. ग. गुप्त / 10. ग. नापि / 11. ग. वचनार्थी /
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy