SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ T 366 15 250 विमलप्रभायां [साधनाज्ञानचक्षुषा पश्यति सम्यक्संबोधावधिचित्तवशात्. सर्वोपधिविनिर्मुक्त इति / एवं तथागतस्य पञ्चचढूंषि मांसादीनि शून्यतादर्शनं प्रति / अन्ये सत्त्वाः शून्यतादर्शनविषये जात्यन्धा इति। एवं विस्तरो वक्ष्यमाणे परमाक्षरज्ञानसिद्धौ वक्तव्य इति तत्त्वभावना नियमः। अतत्त्वसाधने पुनरप्रत्यक्षेऽनुमानं मृतकतनुरिवातत्त्वतः कल्पनं यच्चित्रादौ दर्शनीयमिति / एवं प्रतिमा घटिता चित्रिता बुद्धबोधिसत्त्वानां मण्डलचक्रं वा लिखित्वा नियताकारं दर्शनीयं बालयोगिनां मन्दानां भावनार्थमिति विकल्पभावनानियमः॥ 232 // इदानीं विकल्पभावनाया उपाय उच्यतेरूपं वा मण्डलं वा प्रथममपि पटेऽतत्त्वतो भावनीयं / आकाशे तत्त्वयोगात् सकलमविकलं दृश्यमानं स्वचित्तम् / वर्षाधं वर्षमेकं गुरुनियमवशाद् यावदेव स्थिरं स्यान्मुद्रासङ्गेन तस्मात् कतिपयदिवसेंरक्षरत्वं प्रयाति // 233 // रूपमित्यादि / इह बालयोगिनां स्वचित्तशक्त्या रूपमित्येकदेवता पटे लिखिता भावनीया, मण्डलं वा प्रथ[3111]ममपि पटेऽतत्त्वतो भावनीयम् / स्वचित्तमिति / तत्वतः पुनराकाशे तत्त्वयोगादिति शून्यताकरुणायोगात्। सकलमविकलं दृश्यमानं स्वचित्तं सर्वाकारं रूपमण्डलचक्रकल्पनाऽभावादिति / एवं रूपादिकं कल्पितं पटे लिखितं वा, शून्यताबिम्बम विकल्पं वा, वर्षाधं वर्षमेकं वा गुरुनियमवशाद यावदेव स्थिरं स्यात् "स्वचित्तम् / मुद्रासङ्गेन तस्मादिति। इह स्वचित्ते प्रत्याहारध्यानप्राणायामधारणाबलेन स्थिरे जाते सति ततो मुद्रासङ्गेन कतिपयदिवसैरिति कालचक्रदिनैः पञ्चविंशत्यधिकैकादशशतैरिति नियमः। एभिर्दिनैर्बोधिचित्तमक्षरत्वं प्रयाति वैमल्यं भवतीति सम्बन्धः। अत्र 'पटपुस्तकप्रतिमालिखनाय उपस्थापको धर्मभाणकोऽ न्वेषणीयः, तेन पटपुस्तकप्रतिमादिकं कर्तव्यं रौद्रसौम्यक्रियया। पूर्वोक्तमा()दिक दत्त्वाऽऽचार्यस्य पूजा कार्या / संघभोज्यं गणचक्रं च दातव्यमर्घदानकाले / यथा प्रतिष्ठाकाले विधिः, तथार्घदानकालेऽपि यथाशक्तितः कार्य इति नियमः // 233 // इदानीं वज्रपदनियम उच्यतेसर्वस्मिस्तन्त्रराजे खलु कुलिशपदं योगिनामेतदुक्तं बालानां पाचनाथं परमकरुणया गोपितं विश्वभर्वा / तस्मात् तं भेदयित्वा प्रतिदिनसमये योगिना भावनीयं मुद्रासिद्धयर्थहेतोर्जिनवरजनकाऽनाहतं कालचक्रम् // 234 // // इति साधनापटलश्चतुर्थः // 1. क. एवं वागुरो ग. एषां, च. तेषां / 2. ख. ग. च. छ. चित्रं / 3. क. ख. ग. च. छ. निषिक्ता। 4. च.विकल्पितं / 5. ग. 'स्व' नास्ति / 6. च. पटप्रतिमापुस्तक / '
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy