SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 10 240 विमलप्रभायां [ साधना इति / 'आग्नेयादारभ्य दक्षिणे अकारादारभ्य पत्रत्रये घ ङ छ इति / नैऋत्यादारभ्य पश्चिमे णकारादारभ्य पत्रत्रये सपष इति / वायव्यादारभ्य उत्तरे नकारादारभ्य पत्रत्रये श” कह इति / एवं द्वात्रिंशद्दलेष्विति चतुर्थपरिमण्डले। अधिषष्विति चतुःषष्टिदलेष्विति साध्यः / पत्रेषु चर्तषु पूर्वे दक्षिणे पश्चिमे उत्तरे साध्यनाम यथा, तथा मध्ये / एवं पञ्चस्थानेषु साध्य नाम / तिथिगुणितयुगेष्विति षष्टिदलेषु यथासंख्यं लान्ताः समात्रा इति / हयरवलाः समात्रा द्वादशमात्रासहिताः [ 305a ]षष्टिः षष्टिद- . लेषु ततः साध्यनाम पूर्वादो दक्षिणावर्तेन य या यि यी य य यु यू यल यल यं यः इति द्वादशदलेषु, ततो दक्षिणे साध्यनाम्नो र रा रि री र र रु रू ल ल रं रः इति द्वादशदलेषु, उतरे साध्यनाम्नो व वा वि वी वृ व वु वू वल व्ल वं वः इति द्वादशदलेषु, पश्चिमे साध्यनाम्नो ल ला लि ली ल ल लु लू लल लल लं ल: इति द्वादशदलेष्विति / ततः पूर्वे साध्यस्य अपरपत्रे ह, पश्चिमे हा, उत्तरे हैं; दक्षिणे हः, . एवं वामावर्तेन हि ही ईशानान्तम्, ह ह. अग्न्यन्तम्, हु हू वायव्यन्तम्, ह ल हल नैऋत्यान्तमिति / साध्यस्य नामाद्यक्षरमिति कणिकायाम् द्वितीयं पूर्व सन्ध्यापत्रे, तृतीयं दक्षिणे, चतुर्थमुत्तरे, पञ्चमं पश्चिमे / ते हूँ आः ॐ हो इति चित्तवाक्कायज्ञानाक्षराणि नामाद्यक्षरसहितानि लेख्यानि // 185 // आद्य कैकस्वराभ्यां मकरघटवशाद् दीर्घह्रस्वाश्च पञ्च द्वात्रिंशद् बाह्यपत्रेष्वपि समहृदया वज्रतीक्ष्णादिवर्णाः / बाह्ये शान्त्यादिकमण्यपि च वयरला मण्डलान्येव तेषां वर्णा गर्भोत्तमाङ्गाः शिखिचलचरणा वश्य आकर्षणे च // 186 // अथाकेकस्वराभ्यां मकरघटवशाद दोघंह्रस्वाश्च पञ्चेति / इह मकरादिलानेष्वधिदेवाः का खा गा घा ङा इत्यादयः। पूर्वे साध्यचित्ताक्षरस्य दक्षिणावर्तेन चा छा जा झा त्रा मोने, तथा ञ झ ज छ चेति मेषे, एवं दशपत्रेषु। तथा दक्षिणे वाग्वजस्य टादयो दश, उत्तरे कायवज्रस्य यादयो दश, पश्चिमे ज्ञानवज्रस्य तादयो दश, शेषदलेषु विंशतिषु पश्चिमे पञ्चदलेषु कादयः पञ्च दीर्घाः, पूर्वे ङादय पञ्च हस्वाः, दक्षिणे सादयः पञ्च दीर्घाः, उत्तरेकादयः पञ्च ह्रस्वाः, एवं षष्टिवर्णाः पञ्चमे परिमण्डले। 15 षष्ठे परिमण्डलेऽपि समहृदया वज्रतीक्ष्णादिवर्णा इति। तद्यथा 'वज्रतीक्ष्ण दुःखछेद' इति ईशानमारभ्याग्नेयपर्यन्तम्, ततो दक्षिणे 'प्रज्ञाज्ञानमूर्तये' इति, तथा पश्चिमे कायवागीश्वर अ इति / तथा उत्तरे 'अरपचनाय ते नमः' इति वज्रतीक्ष्णादिवर्णाः। एवं षट्चक्रात्मकं यन्त्रं लिखित्वा अभिषेकपटलोक्तविधिना बाह्ये शान्त्याविकर्मण्यपि चबयरला मण्डलान्येव तेषामिति / इदं यन्त्रं शान्तिपुष्टौ ज्वरापहरणे निर्विषीकरणे / 80 1. ग. अग्नी दक्षिणे / भोटानुसारी। 2. च. भो. 'तथा' नास्ति / 3. अन्यत्र 'दे' गृहीतपाठस्तु
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy