SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ पटले, 167-168 श्लो.] नानासाधनमहोद्देशः 233 स्वराः, व्यञ्जनानां व्यञ्जनानीति / एवं तोयाक्षराण्यग्न्यक्षराणाम्, अग्न्यक्षराणि भूम्यक्षराणाम्, भूम्यक्षराणि वाय्वक्षराणाम्, आकाशाक्षराणि सर्वेषां मित्राणि, सर्वेषामक्षराणि आकाशस्य मित्राणीति / तथा भूमेस्तोयं मित्रम्, वह्नर्वायुमित्रम्, वायोर्वह्निः, तोयस्य भूमिः, एवं मित्रवर्गः / वायोस्तोयमुदास्यम्, वह्नः पृथिव्युदास्या, तोयस्य अग्निरुदास्यः, पथिव्या वायुरुदास्यः। एवं सर्व ज्ञात्वा ततो मन्त्रदेवतां साधयेत्, इति मूलतन्त्रे नियमः। तथा मूलतन्त्रे भगवानाह अकुह कश्च ये कण्ठ्याः स्वरव्यञ्जनलक्षणाः। शून्यं वाय्वादिधातूनां मित्रत्वेन सदा स्थिताः / / इचुयशाश्च . तालव्याः स्वरव्यञ्जनलक्षणाः। वायुधातुसमुद्भूताः शत्रवस्तोयजन्मिनाम् // ऋटुरषाश्च मूर्द्धन्याः स्वरव्यञ्जनलक्षणाः। तेजोधातुसमुद्भूताः शत्रवो भूमिजन्मिनाम् // उपूर्व पाश्च ये चौष्टयाः स्वरव्यञ्जनलक्षणाः। तोयधातुसमुद्भूताः शत्रवो वह्निजन्मिनाम् // लतुलसाश्च ये दन्त्याः स्वरव्यञ्जनलक्षणाः। ' पृथ्वीधातुसमुद्भूताः शत्रवो वायुजन्मिनाम् // 'वायोमित्रं सदा शन्यम उदास्यं वायशक्तितः। तोयस्य मेदिनी मित्रमुदास्योऽग्निरशक्तितः॥ पृथिव्या उदकं मित्रम् उदास्यो वायुरेव च / प्रणवं वर्जयित्वा तु मन्त्रस्याद्यक्षरं कुलम् // चित्तं तदेव मन्त्राणां बिम्बनिष्पत्तिकारणम् / अन्यव्यञ्जनसंयुक्तं मन्त्रस्याद्यक्षरं यदा।। तदा पूर्व तयोर्लाह्यं प्रथमोच्चारहेतुतः। [ 301b] स्वरव्यञ्जनभेदेन तदेव द्विविधं / भवेत् // प्राणस्य शत्रुर्मित्रं च कायस्यापि निगद्यते। प्राणस्य शत्रवो मित्रा उदास्या वा स्वराः स्मृताः।। कायस्य शत्रवो मित्रा उदास्या व्यञ्जनात्मकाः। स्वरः शत्रुहरेत् प्राणं साधकस्य न संशयः॥ 1. भो. rTag TurLun Gi Grogs Po Me. Tha Mal Pa Chu Nus Med Phyir. Me Yi Grogs Po Lun Yin Te. Tha Mal Pa Sa Nus Med Phyir. (वायोमित्रं सदा वह्निरुदास्यं तोयमशक्तितः / वह्नमित्रं च वायुः स्याद् उदास्या पृथ्वी अशक्तितः।।) 25
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy