SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ 215 5 10 पटले, 123-125 श्लो.] उत्पन्नक्रमसाधनमहोद्देशः सुखं द्वीन्द्रियजं तत्त्वं बुद्धत्वफलदायकम् / नरा वज्रधराकारा योषितो वज्रयोषितः / / इत्यादिवचनं मृषावादः, न पुनः सत्त्वानां व[289b]ञ्चनाय विसंवादकं वचनं T357 बौद्धयोगिनामिति सिद्धये। इह शरीरे निरावरणे जाते सति सर्वज्ञस्य द्वादशभूमोनां यद् ग्रहणं योगिनस्तत् स्तेयग्रहणमुक्तम् / बाह्ये पुनः सत्त्वोपकारतो निधानादिकमुत्पाटनीयं निधिरक्षकाणां दुर्गतिमोचनार्थमिति / सौख्यं यत् शुक्रबिन्दोरप्रपाताद् भवति सा परदारस्य सेवा। परदारा प्रज्ञापारमिता संसारपारं गता, परो वज्रसत्त्वः संसारपारं गतः, तस्य दारा परदारेति, तस्याः सेवाऽविरागतोऽक्षरसुखतो योगिनाम् / बाह्ये पुनः सेकादिकाले दात्रा स्वभार्यादिका दत्ता या, तस्याः सेवा परदारस्य सेवाऽविरागादिति / यथात्मसमयिनां विरागो न भवति समयभेद इत्यर्थः / / 124 // प्राणायामानलेन द्रवमपि शशिनः पानकं मद्यपानं उष्णीषेऽङ्गुष्ठपर्वाद् व्रजति तिथिवशात् पूर्णिमान्ते स्वचित्तम् / उष्णीषादङ्गुलीषु व्रजति पुनरिदं कृष्णपक्षावसानं सा चर्या योगिनो वे प्रतिदिनसमये त्विष्टसिद्धिप्रदा या // 125 / / प्राणायामानलेनेति / इह प्राणनिरोधेन या चण्डाली ज्वलिता, सा प्राणायामानल 15 इत्युच्यते, तेन प्राणायामानलेन द्रवमपि शशिन इति बोधिचित्तस्य द्रुतस्य द्रवं बिन्दुरूपं पानकं कुलिशमुखेनोलतो यत्तत् सहजानन्दजनकं मद्यपानं योगिनामुक्तमिति / बाह्ये पुनः 'सेकादिकाले बाह्यदेवतानां वल्यर्थमुक्तमिति / उष्णीषेऽङ्गुष्ठपर्वादिति / इह कामशास्त्रे श्रूयते-इह शुक्लपक्षे वामपादाङ्गुष्ठात् प्रतिपदादिवृद्धया चन्द्रकलावृद्धया पूर्णिमान्ते उष्णीषे स्वचित्तमिति बोधिचित्तं व्रजति तिथिवशादिति / पुनरुष्णीषाद- ____ 20 दक्षिणपादाङ्गुलीषु वति पुनरिदं कृष्णपक्षतिथिवशाद् यावत् कृष्णपक्षावसानम् अमान्तम् / एवं कृष्णपक्षावसाने बोधिचित्तं पादाङ्गुष्ठे वेदितव्यम्, पुनरपरमासे शुक्लपक्षे वामाङ्गुष्ठे पूर्ववदिति / [290a]तत्राह-प्रथमा तिथिः प्रथमाङ्गुलीपर्वे, द्वितीया द्वितीये, तृतीया तृतीये, चतुर्थी वामपादसन्धौ, पञ्चमी जानुसन्धौ, षष्ठी कट्यूरुसन्धौ, सप्तमी वामकराङ्गलिप्रथमपर्वसन्धौ, अष्टमी मध्यमसन्धौ, नवमी तृतीयसन्धौ, दशमी करसन्धौ, एकादशी बाहुसन्धौ, द्वादशी स्कन्धबाहुसन्धौ, त्रयोदशी हृदये, चतुर्दशी कण्ठे, पूर्णा ललाटे, पूर्णान्तमुष्णीषे शुक्रस्य भवति / पुनः कृष्णप्रतिपल्ललाटे, द्वितीया कण्ठे, तृतीया हृदये, चतुर्थी दक्षिणस्कन्धबाहुसन्धौ। शेषं वामवद्विलोमेन दक्षिणपादाङ्गलोनखान्तं यावदमान्तं बोधिचित्तस्य सा चर्या योगिनो वै प्रतिदिनसमये इष्टसिद्धिप्रदा येति / इह बोधिचित्तस्य वामदक्षिणनाडीप्रवाहवशेन 30 वामदक्षिणेन गतस्य सर्वकालं मध्यमाप्रवाहेन षट्सु गुह्यादिकमलेष्वधोगमनादूर्ध्व १.ग. च. सेवा / 2. ग. च. मध्यमा / 3. ग. च. तृतीया /
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy