SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ 197 5 10 15 पटले, 98-100 श्लो.] प्राणदेवतोत्पादमहोद्देशः इदानीं कायवाक्चित्ताधिष्ठानमुच्यतेवज्रः स्वाहानुयुक्तः शिरसि गलहृदो भिगुह्ये च मूनि एतश्चाधिष्ठिताङ्ग परमजिनपति स्नापयेद् देवतीभिः / शन्ये वै धर्मधातो त्रिकुलिशसमये ज्ञानपूजानुरागे वक्तव्यं साधकेन त्रिशरणगमनात् तत्स्वभावात्मकोऽहम् // 100 // वरित्यादि। यथोत्पन्नस्य बालस्य कायवाक्चित्ताधिष्ठानं जाग्रत्स्वप्नसुषुप्तलक्षणं भवति, ललाटे कण्ठे हृदये नाभौ गुह्ये उष्णीषे ॐ आःहूं हो स्वा हा / एतैश्चाधिष्ठिताङ्गं बालं यथा स्नापयन्ति मातरः, तथा परमजिनपति स्नापये देवतीभियोगिनीभिः। अत्राधिष्ठाने ललाटे अकारपरिणतं चन्द्रमण्डलम्, तदुपरि ओङ्कारपरिणतमष्टारचक्रम्, तत्परिणतं कायवज्र शुक्लवणं त्रिमुखं मूलं शुक्लं वामं रक्तं दक्षिणं कृष्णं षड्भुजं दक्षिणे चक्रवज्रपद्मधरं वामे खगघण्टामणिधरं, सप्रज्ञं निष्पाद्य ततो ललाटान्निश्चार्य तेनाकाशधातुं समन्तात् परिपूर्ण विभाव्य कायवज्रवैनेयानां सत्त्वानां धर्मदेशनां कृत्वा पुनरागत्यात्मनः पुरतः संस्थाप्याभिषेकमनुनाथयेत् / अभिषिञ्चन्त मां कायवज्रधरा इति / ततोऽमृतकलशैः कायकुलदेव्योऽभिषिञ्चयन्ति / ततोऽभिषेके सति अधिष्ठानं कारयेत्, स्वललाटे चन्द्रमण्डले कायवर्ज प्रवेश्येदमुदीरयेत् कायवज्रधरः श्रीमान् त्रिवजाभेद्यभावितः / अधिष्ठानपदं मेऽद्य करोतु कायवज्रिणः / / दादिक्संस्थिता बुद्धास्त्रिवज्राभेद्यभाविताः। अधिष्ठानपदं मेऽद्य कुर्वन्तु कायवज्रिणः // इति कायाधिष्ठानम् / [ 279b] . एवं कण्ठे रेफपरिणतं सूर्यमण्डलम्, तदुपरि आःकारपरिणतं रक्तपद्ममष्टदलं तत्परिणतं वाग्वजं सप्रज्ञं रक्तं रक्तसितकृष्णवदनं, दक्षिणे पद्मवज्रचक्रधरं, वामे मणिघण्टाखगधरं निश्चार्याकाशधातुं तेन परिपूर्ण विभाव्य वाग्वज्रवैनेयानां सत्त्वानां धर्मदेशनां कृत्वा पुनरात्मनोऽग्रतः संस्थाप्याऽभिषेकमनुनाथयेत् - अभिषिञ्चन्तु मां वाग्वज्रिणः। ततो वाक्कुल देवीभिरमृतघटैरभिषिञ्च्यमानमात्मानं विभाव्य ततो वागधिष्ठानं कुर्यात्, वाग्वजं सूर्यमण्डले विनिवेश्य इदमुदीरयेत् वाग्वज्रधरः श्रीमान् त्रिवज्राभेद्यभावितः। अधिष्ठानपदं मेऽद्य करोतु वाग्वज्रिणः॥ दशदिक्संस्थिता बुद्धास्त्रिवज्राभेद्यभाविताः। अधिष्ठानपदं मेऽद्य कुर्वन्तु वाग्वज्रिणः॥ 1. ख. ग. च. भो. इह यथो। 2. भो. हुं। 3. भो. अतः परं bsGom Par Byaho ( विभाव्य ) इत्यधिकम् / 4. ख. ग. च. भो. छ. 'स्व' नास्ति / 5. च. देवती। ६.च. षिच्य। T 351 25 30
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy