SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ 180 विमलप्रभायां [ साधना स्वकाये प्रवेश्य प्रज्ञापञ प्रत्येकाक्षर'मन्त्रस्वभावान् ततः पद्मादुत्सृजेत् पूर्ववत् ववत्रभुजचिह्नसंस्थानलक्षणान् ज्ञानचित्तवाक्कायमण्डलेषु / एवं मण्डलोत्सर्जनं च। चकारात् पूर्ववदिति। बालस्य गर्भान्निर्गम काले प्राणादिवायूनां दशानामुत्पादः। शिष्याणां मण्डलप्रवेशकाले पुष्पक्षेपः। नग्नो जरायुचर्माम्बरधरो बाल इति विशुद्धया देवतायाः समयमण्डलनिष्पत्तिः। तत इन्द्रियप्रबोधो ज्ञानसत्त्वप्रवेशो बालस्य यथा तथा देवतायां भावनीया' योगिभिविंशत्याकारसंबोधिलक्षणा। एवं पञ्चाकाराभिसंबोधौ "सेवाङ्गं कायनिष्पत्ती, विंशत्याकारसंबोधावुपसाधनं वानिष्पत्ती, एवमुत्पत्तिक्रमो द्विधा-एको जरायुजः, द्वितीयोऽण्डजः। योऽण्डजः स लोकधातूत्पादः / ब्रह्माण्डजमिति भाषया। यो जरायुजः स मनुष्योत्पादः। यो झटितः स उपपादुकोत्पादः। “सत्त्वानां स एकोत्पत्तिक्रमः / झटिताकारेण सत्त्वाशयेनोक्तो भगवता उत्पन्नक्रमः पुनः कल्पनारहितः। गगनोद्भवः स्वयंभूः प्रज्ञाज्ञानानलो महान् / वैरोचनो महादीप्तिर्ज्ञानज्योतिविरोचनः // (ना० सं० 6. 20-21) 10 T347 इत्यादिपञ्चाकाराभिसम्बोधिनाऽवगन्तव्यः // 51 // इदानीं ज्ञानचक्राकर्षणमुच्यतेनीलाभं भीमकायं प्रहसितवदनं चार्धदंष्ट्राकरालं गर्जन्तं सूर्यनेत्रं द्वयधिकजिनकरं वेदवक्त्रं द्विपादम् / प्रज्ञोपायो[269b]द्भवन्तं प्रहरणसहितं प्रेषयेद् वज्रवेगं अष्टाङ्घ्रिस्यन्दनस्थं जिनरिपुमथनं ज्ञानचक्रस्य हेतोः // 52 // नीलाभमित्यादिना। इह जातबालस्य मध्यमाप्राणनिर्गमो नीलाभः, तस्य निर्गमेनेणे)न्द्रियाणां प्रबोधो बाह्यविषयाणां षड्विज्ञानानां प्रवृत्तिरध्यात्मनि / अतो बाह्यदेवतानिष्पत्तौ नीलाभं प्राणं मध्यमाविशुद्धया वज्रवेगं भीमकायं प्रहसितवदनं चार्धदंष्ट्राकरालं गर्जन्तं द्वादशनेत्रं द्वयधिकजिनकरं षविंशतिभुजं / चतुर्मुखं द्विचरणं प्रज्ञोपायो"द्भवन्तं भर्तृवत् प्रहरणसहितं गजचर्माम्बरधरं पञ्चमुद्राविभूषितम् अक्षोभ्यमुकुटिनं कपालमुण्डमालाधारिणं सपभिरणं "हूँकारवज्रनिर्माणं तं वज्रवेगं १प्रेषयेद 1. क. मण्ड / 2. च. गर्भाद्विनि / 3. क. ख. ग. च. छ. कालः। 4. क. समल / 5. क. ख ग. छ. ताया। 6. च. नीयो / 7. क. शवाङ्ग, छ. सर्वाङ्ग / 8. भो. 'सत्त्वानां' नास्ति / 9. भो. rZogs Pahi ( निष्पन्न ) / १०.क. ख. ग. छ. बालजातस्य / 11. ग. भो. भूतं, च. छ. भवं तं। 12. भो हैं। 13. च.प्रैष, भो. bsKul Bar (प्रेर)।
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy