SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 164 विमलप्रभायां [साधना- . 10 गन्धवज्रा वायुकोणे लोचनावत् / उत्तरद्वारसव्ये उदकजन्या जिह्वा लोकेश्वरोऽमिताभवत् / ईशाने उदकजन्या रूपवजा मामकीवत् / अधो 'ज्ञानधातुजन्यं मनः समन्तभद्रो नोलवर्णस्त्रिमुखः षड्भुजो वर्णतः कालचक्रवत् पूर्वद्वारस्य वामे प्राकारभित्तौ। एवं ज्ञानधातुजन्या शब्दवज्रा उत्तरद्वारवामे समन्तभद्रवत् संस्थानतः। ऊर्श्वे आकाशधातुजन्यं श्रोत्रं वज्रपाणिरक्षोभ्यवत् श्यामो दक्षिणद्वारवामे। एवमाकाशधातुजन्या धर्मधातुवज्रा पश्चिमद्वारस्य वामे वज्रपाणिवत् 'संस्थानतः। एवं षडायतनं पञ्चमे मासे “षष्ठे स्पर्शः" इति ज्ञापकात् स्पर्शादयो विषयाः। एवं द्वादशायतनोत्सर्गो द्वितीयमात्रा कायववस्य। अत्र कृष्णा[:] श्वेता देवतादेवत्यः पूर्वोत्तरा ऊर्ध्वस्थाश्चन्द्र- . मण्डले देयाः, शुक्रमित्वात् खवायूदकधातूनाम् / अथ विदिशिगताः कोणदेव्यश्चन्द्रे "नक्तं प्रज्ञा प्रकीर्तिता" (वि. प्र. पृ. 150 ) इति वचनात् / एवं रक्ता पीता दक्षिणपश्चिमा देवतादेव्योऽधस्ताच्च, सूर्यमण्डले ज्ञानतेजःपृथ्वीधातूनां रजोधर्मित्वात् / अथ . दिशिगता देवताः सूर्यः "दिनस्तु भगवान् वज्री" ( वि. प्र. पृ. 150 )इति. वचनात् / एवं यो भगवतोऽभिमुखः स नायको दिक्षु, विदिक्षु देवी नायिका भगवतोऽभिमुखीति / पराङ्मुखोऽनुनायक इति // 20 // प्रज्ञोत्सङ्गे ह्यपायः शशधरकमले देवतानां च देवी अन्योन्यालिङ्गितौ द्वौ स्वकरसलिलजैः स्वस्वचिह्नाङ्कितैश्च / यच्चिद्रं यस्य सव्ये प्रथमकरतले सास्य मुद्राब्जहीना प्रज्ञोपायेन चक्रं परमसुखगतं पद्मवज्रासनाढयम् // 21 // अतः प्रज्ञोत्सङ्गे झपायोऽनुनायकः शशधरकमले कोणभागे विदिक्षु / एवं देवतानामुपायानामुत्सङ्गे देवी अनुनायिका सूर्यमण्डले दिक्षु / अन्योन्यालिङ्गितो तो स्वकरसलिलजैः स्वस्वचिह्नाङ्कितर्वक्ष्यमाणैर्यच्चिहूं यस्य सव्ये प्रथमकरतले सास्य मुद्राऽब्जहीना / अब्जचिह्न वामेऽपि दक्षिणेऽपि साधारणं रत्नं खङ्गश्चेति / [260a] एवं पूर्वापरं वामदक्षिणं अध ऊवं प्रज्ञोपायेन चक्रं परमसुखगतं वज्रासनाढ्यम् उपायनायकम्, पद्मासनाढयं देवीगण नायकमिति नियमः // 21 // इदानी चिह्नान्युच्यन्तेकृष्णानां खङ्गकयौँ भुवनभयकरं सव्यहस्ते त्रिशूलं वामे खेट कपालं भवति करतले श्वेतखट्वाङ्गमेव / बाणो वज्राङ्कुशो वै सरवडमरुकः सव्यहस्ते क्रमेण वामे कोदण्डपाशौ स्फुरदमलमणिोहितानां तथैव // 22 // 1. ग. पातुज्ञान / 2.2. भो. 'संस्थानतः' नास्ति / 3. भो.gNas sKabs gNis Pa (द्वितीयावस्था)। 4. च. रक्त। 5. ग. पश्चिम / 6. भो. hDren Ma ( नायिकामि०)। 20 T342
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy