SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ T336 4. साधना नाम चतुर्थः पटलः . (1) स्थानरक्षापापदेशनादिमहोद्देशः // 'नमः श्रीकालचक्राय // पुण्यज्ञानविनिर्मितं भगवतो दुर्दान्तसत्त्वाः सदा रूपं भैरवभीषणं गतमदं पश्यन्ति सन्तो जनाः। भाषा सर्वरुता परश्रुतिगता सन्मार्गसंदेशिकी सत्त्वानामधिमुक्तिचित्तवशतो यस्यैव तस्मै नमः॥ सर्वाकारवरोपेतः कायो नानाधिमुक्तितः। दृश्यते स्वस्वभावेन सत्त्वैर्निर्माणलक्षणः॥ सर्वसत्त्वरुतैऋद्धिमात्मनो यः प्रकाशते / सत्त्वाशयवशेनेष कायः संभोगलक्षणः।। नानित्यो नापि नित्यो यो नैको नानेकलक्षणः। न भावो नाप्यभावोऽसौ धर्मकायो निराश्रयः // शून्यताकरुणाऽभिन्नो रागारागविवर्जितः। न प्रज्ञा नाप्युपायोऽसौ कायः स्वाभाविकोऽपरः / / कालचक्रमिति ख्यातं चतुष्कायात्मकं शिवम् / प्रणिपत्य सर्वभावेन मञ्जुश्रीचोदितेन च // साधनापटले टीका पुण्डरीकेण लिख्यते / मया निर्मितकायेन लोकेशेनाजधारिणा // . इह श्रीमति कलापग्रामदक्षिणमलयोद्याने श्रीकालचक्रमण्डलगृहपूर्वद्वारावसाने रत्नमण्डपे रत्नसिंहासनस्थो मञ्जुश्रीभगवान् निर्मितकायो यशोनरेन्द्रः सूर्यरथाध्येषितः सन् परमादिबुद्धात् साधनापटले सुचन्द्राध्येषणं बुद्धभगवतः प्रतिवचनं प्रथमवृत्तेन महापर्षदः प्रकाशयति स्म लब्धः सप्ताभिषेको जिनजनक मया कुम्भगुह्याभिषेकः प्रज्ञाज्ञानाभिषेको भवभयमथनो योगगम्यश्चतुर्थः / भूयः पृच्छामि सम्यग जिनवरसहितं साधनं विश्वभर्तुः श्रुत्वा सौचन्द्रवाक्यं गदति जिनपतिः साधनं वज्रिणश्च // 1 // 20 T337 25 1. च. नमः शाक्यमुनये, ग. नास्ति / 2. ख. च.नैव / 3. च. न नित्यो नाप्यनित्यो यो। 4. भो. 'रत्न' नास्ति /
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy