SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ पटले,.२०१-२०३ श्लो. ] मुद्रादृष्टिमण्डलविसर्जनवीरभोज्यविधिमहोद्देशः 147 'महल्लिकापङ्क्तिः उपासिकापङ्क्तिः पृथक् / तेषां ज्येष्ठकनिष्ठादिना आसनानि देयानि / तत्र भिक्षूणां यो ज्येष्ठः सेकेन किन्तु मूर्खः, लघुको महाचार्यस्तन्त्रदेशकः,तयोयस्तन्त्रदेशकः स वीरभोज्ये गणनायकः / ज्येष्ठोऽन्यगृहे पृथक् सन्तर्पणीयः। एवमन्येऽपि ज्येष्ठा धर्म देशका उपदेशका इति सत्त्वार्थकरणेऽशक्तत्वादिति। अन्ये पुनश्चेल्लकगृहस्थाः प्रागभिषिक्ता भिक्षोर्वज्रधरस्य ज्येष्ठा न भवन्ति, यावदभिज्ञा नोत्पद्यते / अथ विवादं करोति 'कश्चित्, तदा सामर्थ्य पृच्छयते। यदि दर्शयत्यभिज्ञादिकम्, तदा स गणचक्रनायक इति। अथ मिथ्याभिषेकाभिमानः कलहं करोति संवृति त्यक्त्वा, तदा स्वगृहान्निFटयेत्। अथ निर्घाटितो दण्डमङ्गीकरोति, तदा खानपानादिको दण्डो देयो दण्डाधिपतिना। एवं भिक्षुचेल्लकगृहस्थानां यथानुक्रमेण खानपानादिकं देयम् / तदेव सर्व प्राक् ___10 स्थापनीयम् / तेषां मध्ये मण्डलं कृत्वा कालचक्रभगवतः प्रथमपट्टिकां खानपानादिकं दत्त्वा ततो भिक्ष्वादीनामाचार्याणामन्येषामभिषिक्तानां तेषु मूलेषु स्थितानां देयम् / एवं सकलगणकलं तर्पयित्वा यथेष्टम्, तत आचार्यः शिष्यस्याज्ञां प्रदा[2504]य संघदानार्थं तदाऽऽत्मशक्त्या संघाय दक्षिणां दत्त्वा प्रवरकरुणया आनन्दितं 'प्रेषयेत् स्वस्वधाम्नि इति वीरभोज्यनियमः // 202 // 20 इदानीं सर्वभयोपद्रवशमनमुच्यतेशत्र: सिंहो गजेन्द्रो हविरुरगपतिस्तस्करा पाशबन्धः क्षुब्धाम्भोधिः पिशाचा मरणभयकरा व्याधिरिन्द्रोपसर्गः / दारिद्रयं स्त्रीवियोगः क्षुभितनृपभयं वज्रपातोऽर्थनाशो नाशं तस्य प्रयान्ति प्रतिदिनचरणं यः स्मरेद्योगिनीनाम् // 203 / / शत्रुरित्यादिना। इह कश्चिद्यः कुलपुत्रों मण्डलं वर्तयित्वाऽभिषेकं गृहीत्वा प्रतिदिनं चरणं योगिनीनां पूर्वोक्तानाम्, अध्यात्मन्यवधूत्यादीनां चरणं स्मरति, तस्य सर्वाणि भयानि नाशं प्रयान्ति। शत्रुभयं सिंहभयं गजभयं वह्निभयम् उरगभयं तस्करभयं पाशबन्धभयं क्षुब्धसमुद्रभयं पिशाचभयं व्याधिभयम् इन्द्रोपद्रवभयं दारिद्रयदुःखभयं स्त्रीवियोगदुःखभयं क्षुभित नपभयं वज्रपातभयम अर्थनाशभयम् / एवं षोडशभयान्यन्यान्यपि नाशं प्रयान्ति। एषां विस्तारं प्रथमपटले स्तुतिद्वारेण कथितम्, तेनात्र न 25 १.क.महिल्लायाः, ख. च. छ. महल्लायी। 2. ग. 'उपासिकापङ्क्तिः ' नास्ति / 3. भो. Chos sTon Pa Ma Yin Pa (न धर्मदेशका ), च. काश्चेति / 4. ग. 'उपदेशका इति' नास्ति / 5. ग. च. पद्यन्ते / 6. च. 'कश्चित्' नास्ति / 7. ग. च. भो. 'पूर्व' अधिकम् / 8. च. प्रवेशयेत् / 9. च. कुलपुत्रो वा / 10. क. ख. छ. 'गजभयं नास्ति / 11. क. ख. नृपतिभयं /
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy