SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ T413 पटले, 197-201 श्लो. ] मुद्रादृष्टिमण्डलविसर्जनवीरभोज्यविधिमहोद्देशः 145 बुद्धेव[248b]ज्रामृतेनामलशशिवपुषा वज्रिणो लब्धमार्गाः . स्वस्थाने प्रेषणीया व्यपगतकलुषा बोधिचर्यानुरूढाः / / 199 // . ये सत्त्वा इत्यादिना। इह लोकधातो षड्गतिषु ये सत्त्वा' अनभिषिक्तास्त्रिविध भवगतास्तान् सर्वज्ञज्ञानवज्राङ्कशेनाकृष्य भावनामात्रात् परमकरुणया मण्डले चाभिषिच्य बुद्धविण्मूत्ररक्तमज्जाभिः, तथा वज्रामृतेन शुक्रणामलशशिवपुषा ततो वज्रिणो लब्धमार्गाः सन्त इति विभाव्य ततस्ते स्वस्थाने प्रेषणीया वज्राचार्येण सर्वे व्यपगतकलुषा बोधिचर्यानुरूढा इति करुणाभिषेकनियमः // 199 // इदानीमवधूतस्य शिष्यस्याभिषेकनियम उच्यतेद्रव्याभावेऽभिषेको जिनपतिवचनेनावधूतस्य देय एवं धूमादिमार्गः सकलगुणनिधिर्नाडिकायोगयुक्तः / सेवार्थं हस्तमुद्रा स्वहृदयवशगा सर्वदोषैविमुक्ता अन्येषां नैव देयं जिनवरहृदयं मातृपूजाविहीनम् // 20 // द्रव्याभाव इत्यादिना। इह यदावधूतस्य शिष्यस्य द्रव्याभावस्तदा गुरुणा द्रव्याभावेऽभिषेको जिनपतिवचनेनावधूतस्य देयो यथानुक्रमेण सप्ताभिषेकस्ततो देयः।। कलशादिकस्त्रिविधः, एवं चतुर्थो धूमादिमार्गो देय इति कथनीयो वाचेति / तथा 15 सकलगुणनिधिर्नाडिकायोगयुक्तो महाक्षरसुखक्षणो वाचा कथनीयः / तस्य सेवार्थ कर्ममुद्राऽभावे सति हस्तमुद्रानियमो देयः। स्वहृदयवशगा सा हस्तमुद्रा सर्वदोषविमुक्ता बोधिचित्तस्थिरीकरणायेति नियमः / अन्येषां पुनर्गृहस्थानां नैव देयं जिनवरहृदयं वज्रपदं मातृपूजाविहीनमिति तथागतसेकनियमः // 200 // [2490] इदानीं मण्डलविसर्जनमुच्यतेसेकान्ते श्रीघटानां मृदुतनुसुखदं कञ्चुकं वस्त्रयुग्मं देयं श्रीयोगिनीभ्यस्त्वपरमपि तथा कञ्चुकं वस्त्रयुग्मम् / द्वारस्थेभ्यः प्रदेयं सकलगणकुलायात्मशक्त्या तथान्यद् अन्ते होमं प्रकृत्य स्वहृदयकमले ज्ञानसत्त्वं प्रवेश्य // 201 // सेकान्त इत्यादिना। इह सेकावसाने यद्वस्त्रयुग्मं सकञ्चुकं घटोपरि 25 तद्योगिनीभ्यो 'घटरक्षपालिकाभ्यो देयम् / अपरमपि तथा कनकं 20 1. ग. नाभि / 2. क. ख. छ. भगवता। 4. च. भो. 'सा' नास्ति / 5. क. ख. छ. युगलं / 7. छ. 'घट " काम्यो' नास्ति / 3. क. ख. छ. भाव्य / 6. ग. च. कञ्चुलीकं /
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy