SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ 5 पटले, 189-192 श्लो.] मुद्रादृष्टिमण्डलविसर्जनवीरभोज्यविधिमहोद्देशः 141 केशेत्यादिना। इह यदा साधको मिथ्याहङ्कारेणावमानं करोति, प्रतिमुद्रां वा दर्शयति सामर्थ्य विना, तदा' सामर्थ्ययुक्ता स्वकेशान् छेदयति स्वदन्तैरेवं केशच्छेदे स्वदन्तैः कृते सतीदं वदति मुद्रया, हे नरपशो पातनीयस्त्वमत्र मयेति। तथाऽन्योन्यं दन्तैर्दन्तान् घृष्यति तत्र घृष्टे सतीदं वदति तव पिशितमिदं भक्षणीयं मयाद्य हे नरपशो इति / तथा जिह्वौष्ठे लालिते सति वदति तव तनौ रक्तपानं करोमोति। तथा ओष्ठे दन्तैः संदश्यमानेऽपि वदत्युवरगतमिदं भक्षयामस्तवान्त्रं हे नरपशो क्व गच्छसीति मुद्रां दर्शयति क्रुद्धा सती / तेन सामर्थ्यरहितेन प्रतिमुद्रा न दर्शनीया। तासामभिवादनं कृत्वा हृदये वामकरतलं दत्त्वा वामावर्तेन परिभ्राम्य स्वकायं ततो वामहस्तेनोवं प्रणामं कृत्वा गन्तव्यम् / ताभिः सार्धं वादो न कर्तव्य इति बालयोगिनां नियम यद्ददाति, तत्तन करणीयमन्यथा मरणं नयति रुष्टा दूतिका सामर्थ्ययुक्तेति भगवतो नियमः। इदानीं परस्परमुद्रादर्शने प्रतिमुद्रालक्षणमुच्यते। इह कालचक्रभगवतो वामसव्यभुजाभ्यां यानि चिह्नानि तत्स्वरूपा मुद्राः। ततश्च परस्परं मुद्राप्रतिमुद्रेति / वज्रवज्रघण्टयोः, खङ्गफलकयोः, त्रिशूलखट्वाङ्गयोः, कर्तिकाकपालयोः, बाणचापयोः, अकुशपाशयोः; डमरुकरत्नयोः, मुद्गरपद्मयोः, चक्रशङ्खयोः, कुन्ददर्पणयोः, दण्ड- शृङ्खलयोः, पशुब्रह्मवक्त्रयोः, गजचर्मतर्जन्योः, मुकुटकुण्डलयोः, कण्ठिकारुचकयोः, मेखलानूपुरयोः, शृङ्गीनख्योः, नागगरुडयोः, हस्तपादयोः, मुखगुदयोः, भगलिङ्गयोः, स्तनौष्ठयोः, नेत्रभ्र वोः, तिलककज्जलयोः, प्रकोपशिखामोक्षणयोः, जानूर्वोः, कण्ठललाटयोः, नाभिहृदययोः, सीमन्तसिन्दूररेखयोः, दंष्ट्राकनीयस्योः, अङ्गुष्ठानामिकयोः, तर्जनीमध्यमयोः। एवमनेकमुद्रादर्शिते प्रतिमुद्रा अनेका भवन्ति प्रज्ञोपायधर्मेण पृथिव्यादितत्त्वभेदेन, सर्वत्र योगिना वेदितव्येति नियमः // 191 // [246b ] 10 15 20 लास्यायोगेन लास्या भवति नरपते हास्ययोगेन हास्या नृत्यायोगेन नृत्या भवति बहुविधा वाद्ययोगेन वाद्या / गीतायोगेन गीता वरविविधगुणा गन्धयोगेन गन्धा मालायोगेन माला भवति गुणवशाद् धूपयोगेन धूपा // 192 // 25 T412 इदानी लास्यादयो मुद्राऽनन्ताः। तासां स्वभाव ज्ञात्वा सर्वास्ता वेदितव्याः। तद्यथा-लास्यायोगेन लास्या भवति नरपते हास्ययोगेन हास्या, नृत्यायोगेन नृत्या भवति बहुविधा वाद्ययोगेन वाद्या, गीतायोगेन गोता वरविविधगुणा गन्षयोगेन गन्धा, मालायोगेन माला भवति गुणवशाद धूपयोगेन धूपा // 192 // 1. क. ख. तथा / 2. च. नियमः / 3. च. तत्स्वरूप / 4. ग. खेटयोः, च. खेटकयोः /
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy