SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 132 विमलप्रभायां [ अभिषेकइदानीं जिनपतेर्मुद्रोच्यतेमुष्टी वज्रासनस्थे भवति जिनपतेर्वज्रमुद्रोरुमूनि पर्यते वामहस्तो भवति भुविगतो दक्षिणो जानुदेशात् / भूस्पर्शाऽक्षोभ्यमुद्रा त्वपि वरदकरो दक्षिणो रत्नपाणेमोर्चे सव्यहस्तो भवति समगतोत्तानकः पद्मपाणेः // 171 // इहोभयकरेण 'वज्रमुष्टिबन्धः, अङ्गुष्ठौ मुष्ट्या निपीडितौ सव्या'वसव्योरुमूनि वज्रासनस्थे वज्रमुद्रा भवति / इदानीम् अक्षोभ्यमुद्रोच्यते। पूर्व पर्यवं कृत्वा तत्र पर्यॐ वामहस्तो भवत्युत्तानको दक्षिणो भुविगतो दक्षिणजानु देशाद भूस्पर्श यावत् / एवं भूस्पर्शाऽक्षोभ्यमुद्रेति / अपि च तेनैव क्रमेण किन्तूत्तानको दक्षिणकरो रत्न- . पाणेर्वरदमुद्रेति। एवं पर्यङ्के वामहस्तोर्वेन सव्यहस्तः समगतोत्तानकः पद्मपाणेरमिता-' भस्य समाधिमुद्रेति // 171 // वामं पर्यङ्कमूनि ह्यपरकरतलं चाभयं खड्गपाणे: सव्ये मुष्टयाऽवसव्या खलु पुनरपरा तर्जनी मुष्टिबन्धे / मुद्रा वैरोचनस्य स्फुटहृदयगता चापरा चक्रमुद्रा तर्जन्यङ्गष्ठयोगः कटक इह भवेन्मध्यमादेः प्रसारः // 172 / / ___[240b] एवं 'वामं करतलमुत्ता'नकं पर्यङ्कमूध्नि, अपरं दक्षिणं करतलं दक्षिणजानूपरि अभयप्रदम्, खड्गपाणेरमोघसिद्धेरभयमुद्रेति / एवं "सव्ये मुष्ट्यावसव्यमुष्टी या तर्जनी वामा सा पुनरपरा ऊर्ध्वमुष्टिबन्धे तर्जनी प्रविष्टा, इयं बोध्यग्रीमुद्रा वैरोचनस्य स्फुटहृदयगता। तथा चापरा धर्मचक्रमुद्रा तर्जन्यङ्गुष्ठयोगो वामे दक्षिणकरेऽपि कटक इह भवेद् वामवलयनखमेलापके दक्षिणनखमेलापके देशनायोगेन मध्यमादेः प्रसारः, अनामिकायाः कनिष्ठायाः किञ्चिदूर्ध्वमिति हृदयप्रदेशे धर्मचक्रमुद्रा / एवं षट्तथागतानां नियमः // 172 // इदानी दिव्यमुद्रोच्यतेवामे हस्ते सुपूर्णो विमलशशधरो दक्षिणे वज्र सूर्यः सूर्येन्द्वोः संपुटस्थं भयकरकुलिशं क्रोधजं पञ्चशूकम् / - 15 1. ख. ग. च. भो. मुष्टि बद्ध्वा / 2. ग. सव्यापस० 3. ग. च. प्रदेशात् / 4. च. भूस्पर्शम० / 5. क. ख. ग. छ. वामकर। 6. ग. तानं कृत्वा / 7. क. ख. छ. भो. सव्य / 8. ग. च. भो. गता इयम् / 9. ग. दक्षिणे।
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy