SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ विमलप्रभायां [ अभिषेकऐन्द्री। चित्तऋद्धिपादो वाराही। मीमांसाऋद्धिपादः कौमारीति छन्दोहभेद इत्यष्टकं स्यात्। तथा पञ्च क्रोधबलानीति / इह श्रद्धाबलमतिनीला। वीर्यबलमतिबला / स्मृतिबलं वज्रशृङ्खला। समाधिबलं मानी। प्रज्ञाबलं चुन्देत्युपमेलापकम् / तथा प्रकटितनियतानीन्द्रियाण्येव पञ्चेति / तथा श्रद्धेन्द्रियं स्तम्भी। 'वीर्येन्द्रियं मारीची। स्मृतीन्द्रियं जम्भी। समाधीन्द्रियं भृकुटी। प्रज्ञेन्द्रियं रौद्राक्षीति मेलापकमेवं . दशकम् // 167 // सम्यक्चाष्टाङ्गमार्गो भवति नरपते चाष्टकं दैत्यजानां सप्तत्रिंशत्प्रभेदैस्त्रिभुवन निलये बोधिपक्षाश्च धर्माः / योगिन्यस्ताः समस्ताः क्षितितलनिलये योगिना वेदितव्या एवं पीठादि सर्वं भवति नरपते बाह्यदेहे च तद्वत् // 168 // .. सम्यक्चाष्टाङ्गमार्गो भवति नरपते चाष्टकं दैत्यजानामिति / इह सम्यग्दृष्टिः श्वानास्या / सम्यक्संकल्पः काकास्या। सम्यग्वाग् व्याघ्रास्या। सम्यक्कर्मान्त उलूका[2395]स्या / सम्यगाजोवो जम्बुकास्या। सम्यग्व्यायामो गरुडास्या। सम्यक्स्मृतिः शूकरास्या / सम्यक्समाधिः गृध्रास्येति / एवं सप्तत्रिंशत्प्रभेदैस्त्रिभुवननिलये बोधिपाक्षिका धर्मा ये, योगिन्यस्ताः समस्ताः क्षितितलनिलये योगिना वेदितव्या डोम्ब्यादयः। एवं सप्तत्रिंशद्बोधिपाक्षिकधमॆविशोधितं पीठाविकं धर्मकायलक्षणं भवति नरपते बाह्यदेहे च तद्वदिति सर्वत्र नियमः // 168 // .. 10 इदानीमेषामाराधनाय योगिनां चर्याधर्म उच्यतेबौद्धः शैवोऽथ नग्नो भगव इति तथा स्नातको ब्राह्मणो वा कापाली लुप्तकेशो भवतु सितपट: क्षेत्रपालस्तु कोलः / मौनी चोन्मत्तरूपोऽप्यकलुषहृदयः पण्डितश्छात्र एव योगी सिद्धयर्थहेतोः सकलगुणनिधिलब्धतत्त्वो नरेन्द्र / / 169 / / बौद्ध इत्यादिना। इह कालचक्रतन्त्रराजमण्डलेऽभिषिक्तः सर्वमण्डलेष्वभिषिक्तस्तीथिकानामपि साधको देवतादेवतीनां हरिहरादीनां चचिकादीनां मण्डलविशोधितानाम्, तेन योगी लब्धतत्त्वाभिषेको बौद्धो वा भवतु साधनाय ज्ञानस्य लौकिकस्य वा कर्म प्रसरस्य, शैवो वा, अथ नग्नो भवतु परमहंसः। भगवो वा स्नातको वेति / 25 1. भो. brTson hGrus Kyi dBan Po Ni rMug Byed Ma Dah. Dran Pahi dBan Po Ni Hod Zer Can Dan (वीर्यन्द्रियं जम्भी, स्मृतीन्द्रियं मारीची)। 2. क. 'समस्ताः ' नास्ति / 3. ग. च. भो. मण्डले / 4. क. ख. प्रसवस्य / 5. क. ख. ग. च. भगवतो।
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy