SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ 112 विमलप्रभायां [अभिषेक__ततश्चतुर्थपरिमण्डले कायस्थाने पूर्वे लोहकारी, दक्षिणे लाक्षाकारी, पश्चिमे कोषकारी, उत्तरे तैलिनी, आग्नेय्यां वेणुकारी, नैऋत्ये काष्ठकारी, वायव्ये चर्मकारी, ईशाने 'नापितिनीत्यष्टकम् / आसामासनानि गण्डचर्म-व्याघ्रचर्म-ऋक्षचर्मनकुलचर्म-चमरीचर्म-जम्बुकाचर्म-उदचर्म-विडालचर्माणीति। ततः पञ्चमे परिमण्डले श्मशानस्थाने पूर्वे म्लेच्छा, दक्षिणे हड्डी, पश्चिमे मातङ्गी, उत्तरे तापिनी, आग्नेय्यां वर्वरी, नैर्ऋत्ये पुक्कसी, वायव्ये भिल्ली, ईशाने शबरी इत्यष्टौ प्रचण्डाः / आसामासनानि गोधाचर्म-मषकचर्म-शालि जातचर्मकपिचर्म-शशकचर्म-शल्लकीचर्म-'इसुकपशुचर्म-कृकलासचर्माणीति / एषां चर्मणामभावे पूर्वे आनेय्यां श्वचर्म, दक्षिणे नैऋत्यामश्वचर्म, पश्चिमवायव्यां गजचर्म, उत्तरेशाने गोचर्मेति / मध्ये नरचर्म। एवमासनानि दत्त्वा योगिनीनिवेशयेत् / एभिश्चर्मभिः पतुलिकां दापयेत् / तथा करोटकानि पूर्वे शुक्तिपुटिका, अग्नौ तथा, दक्षिणे नैऋत्ये नारिकेलकरोटकम्, पश्चिमे वायव्ये 'शरावः, उत्तरेशाने नरकपालम्, मध्ये दारुपात्रमिति। ततो मद्यादिकं दत्त्वा भक्ष्यभोज्यादिकं प्रदीपसहितं वक्ष्यमाणं दशप्रकारं तोयार्थादिकं दत्त्वा मण्डलं कृत्वा शिष्यः कर्मवविभिः सार्धं पूजाद्रव्यं ढौकयेत् / इत्येवं गणचक्रे स्थानकुलनियमः // 126 // प्रज्ञामाता सुमाता त्रिभुवनजननी लोचनाद्या भगिन्यः षड् वज्रा भागिनेयाः पशुजनभयदा नप्तरश्चचिकाद्याः / चक्रस्थाः[228b] सर्वकालं स्वकुलभुविगता योगिभिः सेवनीयाः क्षेत्रे पीठे श्मशाने न सजनविजने मोचनीयाः कदाचित् // 127 // 10 15 तत: पञ्चमपटलोक्तविधिना संचारः कर्तव्यः, मैथुनं चेति / ततः संचारे प्रज्ञामाता मध्ये गणनायिका सा सुमातेति डोम्बी चण्डाली 10 चेति / गणचक्रे सर्वत्र स्थितानां योगिनीनां लोचनाघाश्चतस्रो यो(भ)गिन्यः, शब्दवज्राद्याः षट्, नीला रौद्राक्षी द्वे भागिनेयिके। पशुजनभयदा नप्तरश्चचिकाद्या अष्टौ १३ताश्चक्रस्थाः सर्वकालं संचारेणागताः स्वकुलभविगता योगिभिः सेवनीयाः। पीठे क्षेत्रे मेलापके श्मशाने द्वादशभूम्यां गताः सेवनीयाः, "सनने ग्राममध्ये गणचक्रे बाह्ये विजने न मोचनीया कदाचिदिति नियमः। सर्वास्ता नग्ना विवस्त्रा मुक्तकेशाः "करोटकर्तिकाहस्ताः संचरन्ति // 127 // 25 1. च. नापितीनामष्ट / २.क. ख. छ. 'आसाम्' नास्ति / 3. च. भो. उद्र, ग. उद्र / - 4. ग. च. म्लेच्छी / 5. ग. च. छ. जातक / 6. भो. ईश्रुक / 7. ग. तत एवं / 8. ग. च. शरावम् / 9. ग. च. तत्र / 10. ग. च. चण्डालिनी / 11. क. ख. ग. छ. योगिनां / 12. ग. च. भो. भोगिन्यः / 13. ग. च. भो. एता / 14. च. स्वजने / 15. ग. च. करोटककति, भो. Thod Pa (कपालकति)।
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy