SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ विमलप्रभायां [ अभिषेक- . आदावित्यादिना। 'आदो सप्ताभिषेके सलिलसंज्ञकेऽभिषिक्तः सन् सप्तभूमिव्याकरणाद् उपासक इत्युच्यते / तेनोपासको भवतीति नियमः / श्रामणेरो घटे स्याद'चलाव्याकरणाद् बुद्धपुत्रः, कुमार इत्यर्थः। ततो गुह्याभिषेके भिक्षुर्भवति साधुमतीव्याकरणाद् बुद्धयुवराजः। स्थविर इति। ततः प्रज्ञाज्ञानाभिषेके उत्तरे तृतीये। कारणेऽभिषिक्तः, धर्मदेशकः 'शिष्यकर्ता भवति, धर्ममेघायां व्याकृतत्वादिति बुद्ध एव "द्वितीयः। तथाह भगवान् नामसंगीत्याम् त्रैलोक्यैककुमाराङ्गस्थविरो वृद्धः प्रजापतिः। द्वात्रिंशल्लक्षणधरः कान्तस्त्रैलोक्यसुन्दरः // (ना. सं. 8.5) इति / तथा अवैवतिको ह्यनागामी खड्गः प्रत्येकनायकः। नानानिर्याणनिर्यातो महाभतेककारणः॥ रणः॥ अर्हन् क्षीणास्रवो भिक्षुर्वीतरागो जितेन्द्रियः। / क्षेमप्राप्तोऽभयप्राप्तः शीतीभूतो ह्यनाविलः // इति / ( ना. सं. 6.10-11) तथा महाव्रतधरो मौजी ब्रह्मचारी व्रतोत्तमः। , महातपास्तपोनिष्ठः स्नातको गौतमोऽग्रणीः॥ ब्रह्मविद् ब्राह्मणो ब्रह्मा ब्रह्मनिर्वाणमाप्तवान् / मुक्तिर्मोक्षो विमोक्षाङ्गो विमुक्तिः [222a]शान्तता शिवः // (ना. सं. 8. 18-19) इत्याचार्याभिषेकः / अतः कायवाक्चित्तवज्रकरणाय 'वज्रकायमुद्रां ददाति / पट्टं च मौलिं ददाति, विष्णुकरणाय चित्तवज्रकरणायेत्यर्थः। वनयज्ञोपवीतम् / सुवर्णमयं सूत्रमयं वा कायवन धरकरणाय ददाति ब्रह्मकरणायेति / तेषां ज्येष्ठकनिष्ठानाम् आचार्यहेतोः स्वजिनकुलवशात् पुष्पपातवशादेव मुद्रां ददाति / विशुद्धामभिषिक्तां वाग्वज्रविशुद्धकरणाय महेश्वरकरणायेति / एवम् कायवज्रधरो ब्रह्मा वाग्वज्रस्तु महेश्वरः। चित्तवज्रधरो राजा स च विष्णुमहद्धिकः // 1. ग. च. भो. इहादी। 2. ग. चले। 3. क. ख. छ. पुत्र / 4. भो. sDud Pa ( शिष्यसंग्रहकर्ता)। 5. च. तृतीयः / 6. ग. च. 'वनकाय' नास्ति / 7. ग. च. छ. भो. 'घर' नास्ति /
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy