SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ 92 विमलप्रभायां [ अभिषेक अनेन मन्त्रेण' उद्घाटनम् / ॐ दिव्यनयनमुद्घाटयामि स्वाहा इति। ततः कुलदेवतामण्डले नायकमादिं कृत्वा दर्शयेन्मण्डलं समस्तम्। ततः पूर्वद्वारे कुलशुद्धिं कृत्वा आचार्यः शिष्यं वामहस्तेन चाल्य कर्मवज्रिणा साधं प्रदक्षिणं कृत्वा उत्तरद्वारे नीत्वा ततः कायविशुद्धयर्थं तारादिदेवीमन्त्रैः सर्वकलशेषु तोयं गृहीत्वा विजयशङ्के प्रक्षिप्य उ[217a]दकाभिषेकं पुनः पञ्चजन्मस्थानेष्वभिषेचयेद् अनेन मन्त्रेण-ॐ आ ई ऋ ऊ लु पञ्चधातु- . विशोधनि स्वाहा। ततो मुकुटाभिषेके पञ्चसु जन्मस्थानेष्वभिषेचयेद् अनेन मन्त्रेण-ॐ अ इ ऋ उ ल पञ्च तथागतपरिशुद्ध स्वाहा। ततो रत्नहेममुकुट वस्त्रमुकुटं 'चाबन्धयेत् / एवमभिषेकद्वयेन धातुस्कन्धपरिशुद्धौ कायविशुद्धिर्भवति / काय वक्त्रभूम्यां काय शुद्धिं कृत्वा ततो दक्षिणावर्तेन पुनर्दक्षिणद्वारे वाग्विशुद्धयर्थं नीत्वा शिष्यं पञ्चसु जन्मस्थानेषु अभिषिञ्च्य पट्टाभिषेकेऽनेन मन्त्रेण-ॐ अ आ अं अः ह हा हं हः होः फ्रें दशपारमितापरिपूरणि स्वाहा इति / ततो रत्नपढें स्वर्णपढें वा, अलाभे पुष्पमालां ललाटे बन्धयेदिति / ततो 'वज्रवज्रघण्टाभिषेके पञ्चसु जन्मस्थानेष्वभिषिञ्च्य अनेन मन्त्रेण-ॐ हूँ होः सूर्यचन्द्रविशोधक स्वाहेति / ततो वज्रवज्रघण्टां शिरसि दत्त्वा शङ्खोदकेनाभिषेचयेदिति। ततोऽभिषेकद्वयेन वाग्वजं "विशोधयित्वा वज्राङ्गुष्ठं दत्त्वा दक्षिणावर्तेन पुनः प्रदक्षिणं कृत्वा पूर्ववक्त्रे चित्तवन"शोधनार्थं पञ्चसु जन्मस्थानेष्वभिषेचयेद् वज्रव्रताभिषेकेऽनेन मन्त्रेण-ॐ अ आ ए ऐ अर् आर् ओ औ अल् आल् "विषयेन्द्रियविशोधनि स्वाहा इति // 96 // क्रोधैर्मेव्यादिनामस्फुटजिनपतिनाज्ञा प्रदेया समात्रा वज्र घण्टां प्रदाय प्रवरकरुणया देशयेत् शुद्धधर्मम् / कुर्यात् प्राणातिपातं खलु कुलिशकुलेऽसत्यवाक्यं च खड्गे . . रत्ने हायं परस्वं वरकमलकुलेऽप्येव हार्या परस्त्री // 9 // ततः श्रोत्रादिषु पुष्पं दत्त्वा पुनर्नामाभिषेके पञ्चसु जन्मस्थानेषु अभिषिञ्च्य अनेन मन्त्रेण-ॐ ह हा य या र रा व वा ल ला चतुर्ब्रह्मविहारविशुद्ध [217b] स्वाहा इति / ततो हस्तपादेषु पुष्पमालां बध्वा "कटकनूपुरादीनामभावे ततोऽभिषेकेन व्याकुर्याद् अमुकवन स्त्वमिति कृत्वा / ततो ज्ञानविशुद्धिनिमित्तं चित्तवज्रं "विशोध 1. भो. Mig (नयनो)द्घा० / 2. ग. च. तत्र। 3. ग. कलशे / 4. ग. शुद्धि / 5. ग. च. वा बन्धयेत् / 6. ग. छ. वस्त्र, च. वज। 7. ग. विशुद्धि / 8. ग. च. षिच्य / 9. भो. 'वज'नास्ति, ग. वक्त्र / 10. छ. है। 11. भो. 'वि' नास्ति / 12. ग. विशोधः / 13. ग. अनुज्ञाभिषेकेऽभिषिञ्चयेत् / 14. भो. 'अं अः' इत्यधिकम् / 15. ग. च. अभिषिच्य / 16. ग. हाटक / 17. क.ख. ग. च. छ. वज्रसत्त्वमिति / 18. ग. च. "वि' नास्ति / .
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy