SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ 1332 पटले]. स्वपरदर्शनन्यायविचारमहोद्देशः 257 इह तदन्तर्भूते गीताधर्मे विष्णुमते, तद्यथा-कर्तास्ति, आत्मास्ति, शुभाशुभ- कर्मास्ति, कालोऽस्ति, पृथिव्यादिप्रकृतिरस्ति, सत्त्वादयो गुणाः सन्ति, शून्यता' नष्टधर्मतास्ति'*, न पश्यती त्याहुरेकीभूत इत्यादितः। कर्ता हेतुः फलस्य शुभाशुभकृतस्य दायकोऽस्तीति / प्रकटितनियता देशना सात्र कालचक्रे विष्णोरिति वैष्णवमतनियमः / इदानीमीश्वरमतमुच्यते षण्मार्गा इत्यादिषण्मार्गाः पञ्चतत्त्वं परपदमखिलं चापरं मन्त्रदेहं विद्यात्मा सच्छिवत्वं त्रिविधपदगतेोजनं त्यागभावः / बिन्दो दः(दं) शिवत्वं सकलतनुगतं द्वादशग्रन्थिभेदाः एतत् सर्वं हि यत्र प्रभवति नियता देशना सा शिवस्य // 163 // इह पूर्वोक्तेन विष्णुमतेन सार्द्ध षण्मार्गादिकं कुतः ? 'एकमूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः'। 10 1-2. ग. 'शून्यता नष्टधर्मता' इति नास्ति भो.sTon Pa Kid Ni mNam Pahi ___Chos Nid De (शून्यता समधर्मताऽस्ति) / 3-4. क. ख. नय इयती / * मूले टीकायां च 'शून्यता नष्टधर्मा' अय वा 'शून्यता नष्टधर्मता अस्ति' इति पाठो लभ्यते / वैशेषिकपक्षे कथमिदं समञ्जसं स्यादिति विषये प्रयासभेदो दृश्यते; अत एव ग. पुस्तके 'शून्यता नष्टधर्मता अस्तीति स्थाने 'नास्ति' इत्येव पाठोऽङ्गीकृतः / टीकाया भोटानुवादे तु 'नष्टधर्मता' इति 'समधर्मता' इत्यनुवादो विहितः / किन्तु मूलं टीकां चाधृत्य स्वाभिप्रायमाविष्कुर्वता खेस्- ड्रब-जे- महाभागेन यथास्थितं . नष्टधर्मता-पाठमङ्गीकृत्यापि कथं वैशेषिकपक्षे 'शून्यता नष्टधर्मता' इत्येव वाक्यं समञ्जसमिति प्रतिपादितम् / . नित्यपरमाणुसंयोगैः सृष्टिमधिगच्छताऽपि तदुपादानकं भौतिकं जगद् अनित्यत्वाद विनश्यत्येवात एतस्य सृष्टिजातस्य नष्टधर्मतात्वेन शून्यता समधिगता भवत्येवेति खेस् डूब जे महाभागानां मतसारांशः / भोटभाषया चायमित्थं विवतो भवति "Ton Pa Nid Ni dNos Po Ran Grub Dus Las Yun Rin Du gNas Pa Yan Nams Paham Sig Pahi Chos Kyi Chod Pa Nid yod De. Nos Po Thams Cad rТsa Bar Thim Pahi sGo Nas gCig Tu Gyur Ba La Sogs Pas. m Thar Sig sTe Mi m Thon Bahi Phyir Ro" (hGrel Chen Dri Med Hod Kyi kGrel bSad-Ga', page 161A). . उपरिलिखितभोटांशस्य संस्कृतानुवादः "स्वोत्पत्तितः दोर्घकालं यावत् स्थितानां वस्तूनां विनाशभङ्गधर्मोच्छेद्यत्वरूपा वा शून्यताऽस्त्येव, यतो हि स्वोपादाने विलीनीभूतानि एकीकरणादिभिः वस्तूनि विनश्यन्ति, अदृश्यतां च गच्छन्ति"।
SR No.004303
Book TitleVimalprabha Tika Part 01
Original Sutra AuthorN/A
AuthorJagannath Upadhyay
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1986
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy