________________
१६
१
श्रीतिलकाचार्यविरचितटीकायुतम्
अशेषक्ष्माधरशिरः- शेखर श्रीधरक्रमः ।
अत्युल्वगुणश्रेणिः, श्रेणिकस्तत्र भूपतिः ।।३।। तदीयकीर्तिकान्तायाः, समुद्रावलयावलिः ।
जाह्नवी कण्ठमुक्तास्रक्, चन्द्रार्कौ कुण्डलाकृती ।।४।। सुनन्दा चिल्लणा देव्यौ, तस्य राज्ञो दृशाविव । निर्जितस्मेरकमले, रूपालोकनसौख्यदे ।। ५ ।। सौनन्देयः सुतो मन्त्री, तस्य राज्यरसायनम् । बलपुष्टिकरः सोऽभूद्धत्वातङ्कानिव द्विषः || ६ || स्रष्टुं राज्यादिकार्याणि, हंसगो हृदयाब्जभूः । चतुर्बुद्धिच्छलाद्यस्य, चेतोऽभूच्चतुराननः ।।७।। श्रीवीरजिनराजस्य, सुधर्मागणनायकः ।
+
क्षमां प्रसाधयन भूरि-क्षमाभूत्परिवारितः ।।८।।
आगात्पुरे राजगृहे, जगृहे च जगत्प्रभुः । बहि:परिसरारामे, वस्तुमावासमुत्तमम् ।।९।। युग्मम् श्रीसुधर्मगुरोः पार्श्वे, कोऽप्येकः काष्ठभारिकः । निर्विन्नो भैवसंसारात् काष्ठभारादिवात्मनः ।। १० ।। अहिंसादिव्रतमयं, संयमं स प्रपन्नवान् । सिद्धिसौधसमारोह-सुखसोपानपद्धतिम् ।।११।। युग्मम् भ्रमन्तं भैक्षमादातुं, गच्छन्तं च बहिर्भुवम् ।
✡
यत्र वा तत्र वा दृष्ट्वा, स्थाने स्थानेऽपि तं जनाः ।।१२।। जल्पन्त्यन्योन्यमेवं ते, यात्यसौ काष्ठभारिकः ।
काष्ठभारी स एवैष, पश्यामुं काष्ठभारिकम् ।।१३।। युग्मम्
१. समस्तानां पृथ्वीपतीनां या मस्तकमुकुटमालास्तासां या शोभा, तया शोभितौ चरणौ यस्य तादृशः ।। ०र: ५ ।। ५ ०णी १० ।। ० ०श्र० २.७.१० ।। ०वि० ८-१० ।। २. राज्यादिविषयककर्माणि विधातुं चतुर्बुद्धिव्याजात्, यस्य–अभयकुमारस्य चित्तं किल हंसगः आत्मस्थितो हृदयकमलोद्भवः चतुर्मुखो ब्रह्मा व अभूत् ।। ०ज्जज्ञे, चचेतश्चतु० ३.४ ।। + ०बो० ६.९ ।। ०मां० ८ ।। ३. भवभ्रमणात् ३ टि० ।। सं० ३.४. ।। * ०तो ६ ।। यातोऽसौ ८, यतोऽसौ ७
।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org