________________
श्रीदशवैकालिकसूत्रम् • तञ्चाकर्ण्य नृपो धात्र्या-भ्यधायि ननु वत्स! किम् । अवज्ञातो महामात्यः, प्राणदो राज्यदश्च ते ।।१४।। सोऽवक् कथमिदं मातः!, सावदद्वत्स! मन्त्रिराट् । कथञ्चिद्वैरिणा दत्तान्मा भूद्राज्ञो विषान्मृतिः ।।१५।। विमृश्येति स राजानं, विषमिश्रितमोदनम् । सहमानं सहमानं, भोजयामास नित्यशः ।।१६।। युग्मम् राज्ञश्चास्ति महादेवी, त्वन्माता गर्भधारिणी । तस्याः समं नृपेणैक-स्थालेऽभूद्भुक्तिदोहदः ।।१७।। सा चाभूत्तदसम्पत्तौ, शशिलेखेव दुर्बला । विलोक्य तादृशीं तां च, पृच्छति स्म महीपतिः ।।१८।। किं ते न पूर्यते किञ्चित् ? किं वाऽज्ञां कोऽप्यखण्डयत् ?। किं केनाप्यभिभूता वा, यदेवं देवि! दर्बला ।।१९।। साँ स्माहैकोऽपि नामीषां, हेतुः कार्याय किं पुनः । त्वया सहैकस्थाले मे, भोक्तुं देवास्ति दोहदः ।।२०।। राज्ञोचे देवि! विश्वस्ता, भव श्वः पुरयिष्यते । सह भोक्तुं द्वितीयेऽह्नि, तामथाजूहवन्नृपः ।।२१।। चाणिक्यः स्माह मादास्त्वं, वत्स! राज्याः स्वभोजनम् । यतस्तवायमाहारः, सर्वोऽस्ति विषभावितः ।।२२।। ततो दिने दिनेऽप्यस्या, मार्गयन्त्या नृपोऽन्यदा । अनागच्छति चाणिक्ये, ददौ कवलमेककम् ।।२३।। तं यावदत्ति सा देवी, चाणिक्यस्तावदागतः । दृष्ट्वा च खादयन्ती ता-माः! किं चक्रे स्ववैरिणि ! ।।२४ ।। सर्वनाशे समुत्पन्ने, ह्यर्द्धं त्यजति पण्डितः । द्वयोः प्राप्ते विषान्मृत्यौ, जीवयाम्यहमेककम् ।।२५।। जल्पन्नित्युदरं तस्यां, विदार्य क्षुरिकाकरः ।
रोहणोा रत्नमिव, पुत्ररत्नं तदाकृषत् ।।२६।। * साऽवदन्नेकमप्येषाम् ५.६.८, साऽवदनैकमप्येषां ७ ।। १. काले २. टि० ।। २. स्ववैरत्वं स्व एव चक्रे कवलभक्षणाद् राज्ञी ८ टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org