SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् ४२७ विराधना। वटोडुम्बरपुष्पाणामपि प्रत्यासन्नभावे सम्भवति परितापनादोषः । अत्राह पर:-षड्जीवनिकायिकाध्ययने विस्तरेण, महाचारकथायां सङक्षेपेण षड्जीवनिकायरक्षासाधूनामुक्ता । किं पुनरत्र ? उच्यते-चारित्रस्य हि रहस्यं षड्जीवनिकायरक्षा । अतोऽत्रादरख्यापनार्थं द्विस्त्रिरुक्तेऽपि न दोषः । तथाधुवं च पडिलेहिता, जोगसा पायकंबलं । सिजमुद्यारभूमिं च, संथारं अदुवासणं ।।१७।। ध्रुवम्-नित्यं यथोक्तकालम् । योगसा-सति काययोगसामर्थ्य । पात्रकम्बलम् -पात्रग्रहणेऽन्यत्रोपधिकम्बलग्रहणात् शेषोपधिं च प्रत्युपेक्षेत । शय्याम्-वसतिं द्विकालं त्रिकालं वा । उच्चारभूमिं च चकारात् प्रश्रवणभूमिं कालभूमिं च । सन्ध्यायां संस्तारकम् अथवा आसनं पादप्रोच्छनं काष्ठासनं वा ।। तथाउच्चारं पासवणं खेलं, सिंघाणजल्लियं । फासुयं पडिलेहित्ता, परिट्ठाविज्जा संजए ।।१८।। स्पष्टः । नवरम् । फासुयंति-प्रासुकं स्थण्डिलं प्रत्युपेक्ष्य ।। उपाश्रयस्थानविधिरुक्त: गोचरप्रवेशमधिकृत्याहपविसिज परागारं, पाणट्ठा भोयणस्स वा । जयं चिट्टे मियं भासे, न य रूवेसु मणं करे ।।१९।। पूर्वार्द्धं सुगमम् । तिष्ठेत्-उचितदेशे । मितं भाषेत-आगमनकार्यादि । न च रूपेषु-दातृकान्तादिषु । मनः कुर्यात् ।। __ तथा बहिर्गतः साधुः केनचित् किञ्चित् पृष्टः, एवं ब्रूयात्- बहुं सुणेइ कन्नेहि, बहुं अच्छीहिं पिच्छई । न य दिलै सुयं सव्वं, भिक्खू अक्खाउमरिहइ ।।२०।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy