SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ४१५ श्रीदशवैकालिकसूत्रम् गोभिराकृष्यो रथः गोरथः शकटं, तत्र योज्यन्त इति क्रीतादित्वादिकणि गोरथिकाः कल्होडाः । वाह्या रथयोग्या इति नैव भाषेत प्रज्ञावान् । अधिकरणदोषप्राप्तेः ।। कार्ये तु दिगुपलक्षणादौ एवं ब्रूयात्जुवं गवित्ति णं बूया, घेणुं रसदइति य । हस्से महल्लए आवि, वए संवहणित्ति य ।।२५।। दम्यं गां युवेति ब्रूयात् । धेनुं रसदेति । गोरथिकं हस्वम् । बाह्यं महल्लक वदेत् । रथयोग्यं संवहन:-धुर्योऽयमिति ।। अपि चतहेव गंतुमुजाणं, पव्वयाणि वणाणि य । रुक्खा महल्ल पेहाए, नेवं भासिज पन्नवं ।।२६।। तथैव गत्वोद्यानं पर्वतान् वनानि च । वृक्षान् महतः प्रेक्ष्य नैवं वक्ष्यमाणं भाषेत प्रज्ञावान् ।। अलं पासायखंभाणं, तोरणाण गिहाण य । फलिहग्गलमावाणं, अलं उदगदोणिणां ॥२७॥ • अलम्-पर्याप्ताः, समर्था, योग्याः । प्रासादानां, स्तम्भानाम् । तोरणानाम् -नगरसत्कानाम् । गृहाणाम्-सामान्यवेश्मनाम् । तथा परिघार्गलानावाम् । तथा अलं उदकद्रोणीनाम्-उदकद्रोण्यः-अरघट्टजलधारिकाः ।। तथा- . पीढए चंगबेरे य, नंगले मइयं सिया । जंतलट्ठी व नाभी वा, गंडिया व अलंसिया ॥२८॥ . इह चतुर्थ्यर्थे प्रथमा । पीठकाय-काष्ठासनाय । चङ्गबेरम्-काष्ठपात्री तस्यै। लागलायमयिकम्-उप्तबीजाच्छादनं तस्मै । यन्त्रयष्ट्यै वा । नाभि:-शकटचक्रतुम्बं तस्मै । गण्डिका-सुवर्णकाराणाम् अधिकरणी तस्यै । अलम्-योग्याः । स्युरेते वृक्षाः।। तथा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy