SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ३९४ श्रीतिलकाचार्यविरचितटीकायुतम् लब्ध्वापि देवत्वम् । उपपन्नो देवकिल्बिषः-किल्बिषिकदेवः । तत्रापि सन जानाति-विशुद्धावधिज्ञानाभावात् । किं कृत्वा ममेदं फलं जातमिति शेषः ।। अस्यैव दोषान्तरमाहतत्तो वि से चइत्ताणं, लब्भिही एलमूययं । नरगं तिरिक्खजोणिं वा, बोही जत्थ सुदुल्लहा ॥४८॥ स्पष्टः । से-इत्यसौ । एडमूकताम्-अवाक्श्रुतित्वम् ।।. . प्रकृतमुपसंहरन्तिएयं च दोसं दट्टणं, नायपुत्तेण भासियं । । अणुमायंपि मेहावी, मायामोसं विवजए ।।४९।। . ज्ञातपुत्रेण-श्रीमहावीरेण भाषितम् । अणुमात्रमपि-स्तोकमपि । मेधावीसाधुः । मायामृषावादम्-अनन्तरोक्तम् । विवर्जयेत् ।। __ अध्ययनार्थमुपसंहरन्नाहसिक्खिऊण भिक्खेण सोहिं, संजयाण बुद्धाणं सगासे । तत्थ भिक्खू सुप्पणिहिदिए, तिव्वलजगुणवं विहरिजासित्ति बेमि ॥५०॥ पूर्वार्धं स्पष्टम् । उत्तरार्द्धस्यायमर्थः । तत्र भिक्षुः सुप्रणिहितेन्द्रियः । तीव्रो लजागुणः-यस्यासंयमकरणे स तीव्रलज्जागुणवान् । विहरेत् । ब्रवीमीति प्राग्वत् ।। ।। इति पिण्डषणाद्वितीयादेशकः ।। ।। पिण्डेषणाध्ययनटीका समाप्ता ।। ॥ षष्ठं महाचारकथाध्ययनम् ।। अनन्तराध्ययने पिण्डशुद्धिरुक्ता । तत्र च गृहादौ पृष्टेन, न सविस्तरः स्वाचारो वाच्यः । किन्तु स्वाश्रये । स च क्षुल्लिकाचारकथातो महान् महाचारकथायां सविस्तरं वाच्य इति महाचारकथाध्ययनं व्याख्यायते । तच्चेदम् नाणदंसणसंपन्नं, संजमे य तवे रयं ।। गणिमागमसंपन्नं, उज्जाणम्मि समोसठं ॥१॥ १. बधिरश्चासौ मूकः १० टि० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy