________________
२८७
श्रीदशवैकालिकसूत्रम् २८७ जामाता मम योग्योऽसौ, प्रकटोत्कटपौरुषः । इत्युक्त्वा वीरकं स्माह, गृह्यतां केतुमञ्जरी ।।२९८७ ।। सोऽनिच्छन् भृकुटिं कुत्वा, भाषितस्तामुपायत । निन्येऽथ निधिवद् गेहे, राजीवत् साऽस्ति तल्पगा ।।२९८८ ।। वीरः सर्वं करोत्यस्या, राज्ञा पृष्टोऽन्यदाथ सः । करोति त्वद्वचः पत्नी, सोऽवक् तत्किङ्करोऽस्म्यहम् ।।२९९९ ।। राजोचे यदि सर्वं न, कारयिष्यसि नासि तत् । तेन राजाशयं ज्ञात्वा, भणिता गृहमीयुषा ।।३००० ।। मुश्च पर्यङ्ककमुत्तिष्ठ, त्वं पर्यायणिकां कुरु । कोलिकं प्रति सा क्रुद्धा, तेन रज्वाथ ताडिता ।।३००१।। रुदत्यगात् पितुः पार्श्व-ऽवोचत् तेनाहमाहता । राज्ञोचे त्वं पुरा पृष्टा, प्रार्थयामास दासताम् ।।३००२ ।। सो तेऽभूत् पुत्रि ! सोचेऽथ, मात्रानर्थेऽस्मि पातिता । ततोऽधुनापि मां तात !, प्रसद्य स्वामिनी कुरु ।।३००३।। कृष्णोऽवददिदानीं त्वं, वीरकस्य वशे ह्यसि । तत्कथं क्रियते वत्से !, दुःकरा स्वामिता तव ।।३००४।। निर्बन्धेन तयाथोक्तः, कृष्णो निर्मोच्य वीरकात् । नीत्वा श्रीनेमिपार्श्वे तां, प्रव्राज्य स्वामिनी व्यधात् ।।३००५ ।। __ अथान्यदा प्रभुं नन्तुं, सपरिवारमागतम् । समस्तै राजभिर्युक्तो-ऽनुगतो वीरकेण च ।।३००६।। समवसरणे गत्वा, नत्वा स्वामिपदाम्बुजम् । ततः समस्तसाधूनां, द्वादशावर्तवन्दनम् ।।३००७।। हरिददौ प्रहर्षेण, राजानोऽन्ये स्थिताः क्रमात् । वीरको वासुदेवानु-वृत्या निर्वहति स्म सः ।।३००८ ।। युग्मम् ऊँचे श्रीनेमिनं कृष्णः, श्रान्तवान् वन्दनादितः ।
यथा तथा विभोर्नेव, सषष्टित्रिशताहवैः ।।३००९।। १. दासता । बद्धश्वेदोऽभवत् कृष्णः, श्रान्तवान् पृष्टवानिदम्। न सङ्ग्रामशतैरेवं, त्रिभिः श्रान्तः सषष्टिभिः। २.६-१०।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org