SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ श्रीतिलकाचार्यविरचितटीकायुतम् सहस्ररश्मेः किल रश्मिजाले, नभोम्बुराशौ प्रसृते समन्तात् । तारासमूहस्तिमिमण्डलीव-न्निमज्जति स्म क्वचिदप्यगाधे ।। ३३९।। उपजातिः बालोऽपि दत्तवान् सूरः, पोदान्मौलिषु भूभृताम् । सिंहः किं वा न डिम्भोऽपि कुम्भिकुम्भान्निशुम्भति ।। ३४० ।। मत्तोऽसौ युधिनाऽनश्यत्, तोषादिव ततो ददौ । मौलौ कुमारस्तस्यासिं-प्रहारं वीरपट्टवत् ।।३४१।। नमन्निवाऽथ तस्याग्रे, न्यपतन्मूर्च्छितः क्षितौ । तं प्रवीञ्ज्याऽञ्चलेनासौ, विमूर्च्छन्नुदतिष्ठत् ।।३४२ ।। ऊचे च यदि जातोऽसि, पटुर्युध्यस्व तत्पुनः । खेचरस्तमथोवाच, त्वयाहं भद्र ! निर्जितः ।। ३४३ ।। रक्षितः स्त्रीवधोत्योऽघोत्, तद्भवायाश्च दुर्गतेः । मम वस्त्राञ्चले दिव्ये, विद्यते मणिमूलिके ।। ३४४ || घृष्ट्वा मण्यऽम्भसा मूलीं, प्रलेपं देहि मणे । कुमारस्तत्तथा चक्रे, सोथाभून्निर्व्रणः क्षणात् ।।३४५।। कन्यकाचिन्तयदयं, यदेतेनापराजितः । कुमारस्तत्स एवैष, मन्येऽहमपराजित ||३४६ || अथ स्वस्थकुमारेण, पृष्टः कस्त्वमियं च का ? | व्याचष्टे स्म यथावृत्तं, तस्याः स्वस्य च खेचरः ।। ३४७।। अमृतसेनो राजास्ति, रथनुपुरपत्तने । दुहिता रत्नमालेति, तस्यास्ते गुणरत्नभूः ।।३४८ ।। कथितोऽस्ति वरस्तस्या, ज्ञानिना हरिणन्दिसूः । अपराजितः कुमारः, स्वपरैरपराजितः ।। ३४९ ।। तस्मिन्नेवानुरक्तासौ, न स्वप्नेऽप्यन्यमीहते । दृष्टा मयार्थितात्यन्तं, न मेने सर्वथापि माम् ।।३५०।। १. क्षुद्रमत्स्यविशेषसमूहवत् ।। २. किरणान् ९ टि० ।। ३. विदारयति ९ टि०, मर्दति १० टि० ।। ०पि २ ०त्थायास्त ४ ।। ५ ०मु० २-१० ।। ० ०४० २.५.१० ।। ४. सज्जीभूतोऽसि तदा पुनर्युद्धस्व ९ टि० । ।। ५. पापात् ९ टि० ।। ६. खेचरेण ९ टि० ।। ७. गुणरत्नभूमिः ९ टि० ।। है ०ष्ट्वा २.५-१० ।। ६२ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy